SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०८ साहित्यसारम् । [ पूर्वा तादृशस्तु विभावोऽपि युवतिः सुखसंततिः । अथापि जीवितं हन्त कान्तानेत्रान्तचञ्चलम् ॥ ७२ ॥ अद्वैतसच्चिदानन्दे यद्यपि प्राप्तिरूपिते । रसें विरोधशङ्कापि नैवास्ति तदपीह नः ॥ ७३ ॥ रसशब्देन तत्स्थायिभाव एव विवक्षितः । अतस्तयोस्तादृशयोः स युक्तः सोऽपि च द्विधा ॥ ७४ ॥ ईदृगिति । इदं हि पाण्डित्यार्थे घोषणे प्रवृत्तस्य कस्यचित्खमनस्येव वचः । तत्र घोषणप्रौत्सुक्यादिरीदृगित्यादिद्योतित निर्वेदमूलकशान्तरसविरुद्धोऽपि व्यभिचारिभावो बाध्यत्वाद्गुण एवेति भावः । यथावा – 'क्वाकार्य शशलक्ष्मणः क्वच कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति' इति । अत्र चतुर्षु पादेषु पूर्वभागप्रतिपाद्यानां शमाङ्गानां चिन्तामतिशङ्काधृतीनां उत्तरभागमप्रतिप्राद्याभिरभिलाषाङ्गभूताभिरौत्सुक्य स्मृति दैन्य चिन्ताभिस्तिरस्कारपुरःसरं चिन्तायामेव प र्यवसानमिति भावशबलतापरिपोषकत्वाद्गुणत्वमिति प्रदीपकारः ॥ ७१ ॥ एवं विरुद्धविभावमप्यपवदति- तादृशस्त्विति । तादृशः प्राग्वत्प्रकृतरसादिविरुद्धोऽपि बाध्यश्चेदित्यर्थः । विभावोऽपि आलम्बनादिविभावोऽपीति यावत् । गुणता मियादित्यनुकृष्य योज्यम् । तमुदाहरति — युवतिरित्यादित्रिपाद्या । यद्यपि युवतिः स्वतरुण्येव सुखेति सुखपरं परास्तीत्यन्वयः । अथापीति । कान्ता मृगाक्षी नतु नारी । स्पष्टमेवान्यत् । अत्र द्वितीयपादे पूर्वार्धशेषे शृङ्गारस्यालम्बनविभावः सचोत्तरार्धोक्तशान्तस्यालम्बनादिविभावेन सार्धं विरुद्धोऽपि बाध्य - त्वान्निबद्ध इति नैव दोषः । प्रत्युत प्रकृतशान्तरसपरिपोषकत्वाद्गुण एवेति भावः । यथावा -- - ' चेतोहरा युवतयः सुरतानुकूलाः सद्बान्धवाः प्रणयनम्रगिरश्च भृत्याः । वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः संमीलने नयनयोर्नहि किंचिदस्ति' इति ॥ ७२ ॥ ननु भवत्वेवं व्यवस्था तथापि चतुर्थरत्ने भवदभिमते 'रसो वै सः' इत्यादिश्रुतेरद्वैतात्ममात्ररूपे रसे तदाकारचित्तवृत्तौ वा सत्यां द्वितीयस्यैवाभावात्क्क नाम विरोधशङ्कापीत्याशङ्कयात्र रसपदेनाजहत्स्वार्थलक्षणातस्तदवच्छिन्नतत्स्थायिभावस्यै वेष्टत्वात्परस्परप्रतिकूलयोस्तु रतिनिर्वेदयोः शृङ्गारशान्तस्थायिनोर्विरोधो युक्त इति समाधत्ते - अद्वैतेत्यादि युक्तइत्यन्तेन युग्मेन । एवं चैतदभिधायैव दोषरत्ने मया विभावानुभावव्यभिचारिभावानामेव परस्परप्रतिकूलानां ग्रथनं दोषत्वेनोक्तं । रसानां तु तादृशां नामापि न गृहीतमिति हृदयम् । प्रागिति । 'विभावाद्यैरपाज्ञानचिद्वेद्यः स्थाय्यसौ रसः । यद्वा तत्संयुतिव्यक्तस्थाय्युपाधिश्चिदेव सः' इत्यादिना ॥ ७३ ॥ सः विरोधः तादृशयोः विरुद्वयोः तयोः स्थायिनोः युक्त इति संबन्धः । एवमेवोक्तं प्रदीपेपि । ननु प्राक्प्र 1
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy