SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०९ गुणरत्नम् ७] सरसामोदव्याख्यासहितम् । विरुद्धोऽपि च संचारी बाध्यश्चेहुणतामियात् । ईदृक्पाण्डित्यमाप्यं किं धिग्वृथा कण्ठशोषणम् ॥ ७१ ॥ नैव स्याकिंतु गुण एवेत्यन्वयः । तदुक्तं प्रदीपे–'न दोषः खपदेनोक्तावपि संचारिणः क्वचित् । संचारिणो नतु रसस्थायिनोरपि न क्वचित्'इति । यत्र इतरविलक्षणो नानुभाव इति । तदुदाहरति-श्रीरिति । अत्र हि व्रीडाशब्दशक्यो व्यभिचारिभावस्तावलक्ष्म्याः प्रथमश्रीविष्णुसमागमवर्णनेन संभोगशृङ्गारे प्रस्तुते यद्यपि स्ववाचकशब्देनैवोक्तस्तथापि तदनुभावस्य नताननत्वरूपस्य करुणे शान्ते वा सत्वात्तद्वाचकशब्दवत्स्फुटतरं खबोधनेऽसामर्थ्यान्नैव दोष इत्याशयः। एतेन पर्यायशब्देनापि निरुक्तापवादेतरस्थले व्यभिचायुक्तिस्तथा सर्वत्र रस. स्थाय्युक्तिर्दोष एवेति सूचितम् । यथावा तत्रैव-औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैनीताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः' इति । अत्रौत्सुक्यह्रीपदे तथा । साध्वसरसपदेन तु भयानकरसवाचिना न तु रसेल्यादि प्रागेतदुक्तोक्तव्यतिरेकाद्दोषोदाहरणमपि बोध्यम् । अतएवामरुकपद्यमपि–'दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लि. ध्यत्यरुणं गृहीतवसने किंचाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पा. म्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि' इति । इदंतु केवलमुक्तनियमगमकमुदाहरणमिति तत्त्वम् ॥ ७० ॥ अथ विरुद्धानामपि व्यभिचारिविभावरसानां किंचिदवच्छेदेन विन्यासा गुणा एवेति वक्तुमादौ विरुद्धस्य संचारिणस्तथात्वं कथयति-विरुद्धोऽपि चेति । ननु यदि दोषरत्ने परस्परविरुद्धौ व्यभिचारिणौ वा विभावौ वा रसौ वा विन्यस्तौ चेद्दोष इति कथितं स्याचेद्धटेतापीदं तदपवादनं तत्तु नैव पश्याम इति चेद्बाढम् । तत्र हि प्रतिकूलो विभावादिः प्रकृतस्य रसस्य य इत्यत्रादिपदेनानुभावव्यभिचारिभावरसानां संग्रहात् । अतएव प्रदीपे तावद्रसदोषसंग्राहकगतप्रतिकूलविभावादिग्रह इति सूत्रव्याख्याने प्रकृतरसादेः प्रतिकूलो यो रसादिस्तद्विभावानुभावव्यभिचारिणां ग्रह इति व्याख्यातम् । तत्र तद्विभावेत्यादौ सच तद्विभावानुभावव्यभिचारिणश्चेति समासस्य विवक्षितत्वेन परस्परविरुद्धरसाद्युपन्यासस्य दोषत्वसंग्रहादन्यथा संचार्यादेविरुद्धस्य बाध्यस्योक्तिर्गुणावहेत्यायुत्तरंतत्रत्यसूत्रतयाख्यानाद्यात्मकोक्ततदपवादग्रन्थस्याप्राप्तपरिहारकतापत्तेश्च । तस्माद्युक्तमेवेदं तदपवादनमिति बोध्यम् । संचारी व्यभिचारिभावः विरुद्धोऽपि 'ज्ञेयौ शृङ्गारबीभत्सौ तथा वीरभयानको । रौद्राद्भुतौ हास्यरसकरुणौ वैरिणौ मिथः' इति प्राचीनवचनात्प्रकृतरसादिप्रतिकूलोऽपीत्यर्थः । यदि बाध्यः बाधाथै निबद्धस्तर्हि गुणतामियादिति संबन्धः । तदुक्तं काव्यप्रदीपे–'प्रकृतविरुद्धं व्यभिचार्यादिबाध्य. त्वेनोच्यते तदा दूरे दोषलं प्रत्युत प्रकृततया गुणत्वम्' इति । तदुदाहरति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy