________________
३०८
साहित्यसारम् ।
[पूर्वार्धे
विशेषपरिवृत्तोऽपि गुणः प्रकरणादि चेत् । शृण्वयि ब्रह्मजिज्ञासो दृश्यं मृगजलोपमम् ॥ ६७ ॥ गुणो युक्तानुवादोऽपि वक्तोन्मादी भवेद्यदि । विरहिघ्नघनाद्यत्वं राधां मां कृष्ण एषि किम् ॥ ६८ ॥ क्वचिदायाति गुणतामश्लीलोऽर्थोऽपि शब्दवत् । एवं रुद्रार्थदोषाणामपवादाः प्रकीर्तिताः ॥ ६९ ॥ सत्यन्यरससामान्येऽनुभावे स्वपदेरितः।
संचारी नैव दोषः श्रीर्लजया वलितानना ॥ ७० ॥ भावः । एवमन्यदप्युन्नेयम् ॥ ६६ ॥ एवं विशेषपरिवृत्तमपपदति-विशेषेति । यदि प्रकरणादि चेत्तर्हि विशेषपरिवृत्तोऽपि गुणः स्यादिति संबन्धः । आदिना लिङ्गादि । तमुदाहरति-ण्विति । ब्रह्मेति । 'ब्रह्म प्रोकं तपोध्यात्मवेदज्ञानेषु सूरिभिः' इति विश्वात् शृण्वय्यद्वैतजिज्ञासो इति विशेषविन्यासो वाच्य. स्तेनायं विशेषपरिवृत्तोऽर्थदोषोऽपि अद्वैतब्रह्मण एव प्रकरणादृश्यमित्याद्युपदेशलक्षणतन्मात्रघटकलिङ्गाच्च गुण एवेति भावः । तदुक्तं प्रदीपे–'विशेषनियामकप्रकरणादिसले खदोषत्वम्' इति । यथावा बालरामायणे-'सद्यः पुरःपरिसरेऽपि शिरीषमृद्वी सीता जवात्रिचतुराणि पदानि गत्वा । गन्तव्यमस्ति कियदित्यसकृद्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्' इति । अत्र रामपदस्य 'रामः पशुविशेषे स्याज्जामदग्ये हलायुधे । राघवे चासितश्वेतमनोज्ञेषु तु वाच्यवत्' इति विश्वान्नानार्थकत्वेन तथात्वेऽपि प्रकरणादिना गुणत्वमेवेति दिक् ॥ ६७ ॥ अयुक्तानुवादमप्यपवदति-गुण इति । तमुदाहरति-विरहीति। अत्र विरहिनेत्यनुवादो राधामित्यादिविधिविरुद्धत्वेन तादृशोऽपि वश्यास्तस्या उन्मादित्वेन गुणएवेति भावः । अतएवैतत्प्रकरणे प्रदीप उक्तमनित्यदोषोऽयमिति । यथावा रसतरङ्गिण्याम्-'नैषा कापि चकास्ति काश्चनलता सैवास्ति मे राधिका पृष्टाचेन कुतोऽपि जल्पति तदा संमूर्छिता वर्तते । इत्थं हन्त विचिन्त्य सिंचति मुहुनीरेधीरैर्टशोर्वातं वा तनुते करेण भुजयोराधाय संभाषते' इति । अत्र पूर्वार्धोक्तः कवेः श्रीकृष्णानुभवानुसारेणार्थ उत्तरार्धवर्णिततयापारविरुद्ध इत्ययुक्तानुवादाभिधोऽर्थदोषोऽप्ययं वक्तु यकस्योन्मादित्वाद्गुण एवेति ॥ ६८ ॥ अथाश्लीलेऽर्थेऽपि शब्दाश्लीलापवादनिमित्तसाम्यमेवेति कथयंस्तमनुदाहरनेव तदतिदेशेनैवापवदति-क्वचिदिति । ततस्तत्संख्यां कथयन्नुपसंहरति-एवमिति ॥ ६९ ॥ अथ रसदोषेषु कांश्चिदपवदन्नादौ व्यभिचारिभावस्य खवाचकपदवाच्यतामपवदति-सतीति । अनुभावे प्रागुक्तकायिकमामसाहार्यसात्विकान्यतमविकार इत्यर्थः । अन्येति । अन्यः प्रकृतेतरः यो रसस्तेन सामान्यस्तद्रसेऽपि विद्यमान इतियावत् । एतादृशे सति । खेति । स्मृत्यादिखवाचकपदेनाभिहित इत्यर्थः । एतादृशः संचारी व्यभिचारिभावः । दोषः