________________
गुणरत्नम् ७] सरसामोदव्याख्यासहितम् ।
गुणो निर्हेतुरप्यत्र हेतो भे प्रसिद्धितः। राधे संप्रार्थयेऽहं त्वां मानमेन त्यज प्रिये ॥ १५ ॥ औत्पातिके कवेः संविद्विरुद्धोऽपि भवेद्गुणः । भो दशग्रीव नीपोऽयं मम पल्लवपल्लवी ॥६६॥
एव मरणसंभवश्चेति हेतू द्योत्येते । एवं चाहं श्रीमद्विरहे एव मरिष्यामीत्यतो नैव भवद्भिः प्रवसितव्यमित्याकूतम् । अत्र निरुक्कसंदेहस्यैव प्रियमनसि व्यञ्जनयैव वक्रोक्तितः खाशयसूचनाय तथा शब्दार्थोभयसंदेहेन प्रश्नोत्तरस्य तद्विवेचनादिपूर्वकं प्रदातुमर्हत्वेन यावत्कालं मत्प्रश्नोत्तरे विलम्बो लगिष्यति तावत्कालमपि प्रेयःसङ्गःस्यादित्यादिस्वाभीष्टायोद्देश्यत्वात्संदिग्धोऽप्युक्तलक्षणोर्थो गुण एवेति भावः । यथावा-'एकः पपौ भुवनभीकरकालकूटमन्यः पपौ स्तनविष खलु पूतनायाः । को वानयोरधिक इत्यनुचिन्त्य वृद्धाः सत्यं ब्रुवन्तु तमिमं वयमाश्रयामः' इति । इहेदंशब्दान्यथानुपपत्तिसिद्धतुल्यकालोभयसाक्षात्कारध्वनिताद्वैतात्मनिष्ठावत्त्वेन वस्तुतः खस्य संदेहाभावेऽप्येकभक्तिप्रतिष्ठापनार्थ वैष्णवंमन्यक्षोभणाय संदेहस्यैवोद्देश्यत्वात्संदिग्धोऽप्युक्तोर्थों गुण एवेति संक्षेपः ॥६४॥ एवं निर्हेतुमप्यपवदति-गुण इति । अत्र अलंकारशास्त्रविवक्षितकाव्ये प्रसिद्धितः। प्रत्यक्षादिप्रमाणान्तरत इति यावत् । हेतोलाभे सतीत्यर्थः । निर्हेतुरप्यर्थः गुणो भवतीति संबन्धः । अतएवोक्तमिमं प्रकृय प्रदीपे–'दुष्टिबीजं चात्रोद्देश्यप्रतीतिविरहः, अतएव प्रसिद्धावनुपादानेऽपि न दोषः' इति । तमुदाहरतिराध इति । इदं हि मानवती राधिकां प्रति श्रीकृष्णवाक्यम् । अयि राधे, अहं त्वां प्रति संप्रार्थये । किं तदित्यत आह-मानमिति। हे प्रिये-एतेन मदुपेक्षा. विषयत्वानहत्वं द्योत्यते । त्वं एतं प्रत्यक्षम् । एवं चापलापानहत्वं सूच्यते । त्यजेति योजना । अत्र कुतो मानत्यागं प्रार्थयसीत्याकाङ्कितहेतोरनुक्तावपि तस्य रतिसंपादनलक्षणस्य सुप्रसिद्धवाद्गुणत्वमेवेत्याशयः । यथावा मदीये नीतिशतपत्रे-तारुण्यारोपितगुणे सुन्दरीभ्रूशरासने । नम्रत्वमेव संपाद्य जगजयति मन्मथः' इति ॥ ६५ ॥ अथ विरुद्धेषु कविसंविद्विरुद्धमेकमपवदति-औत्पातिक इति । उत्पातस्य महानर्थस्यायमौत्पातिकः उत्पातसूचकस्तस्मिन्नर्थ इत्यर्थः । तदुक्तं प्रदीपे तं प्रकृत्य 'दूषकताबीजं च विरोधादर्थाप्रतीतिः' इति उत्पातादिना तत्प्रतीतावदोष इति । तमुदाहरति-भो इति । इदं हि रावणं प्रति रहो निष्कुटविहारे मन्दोदरीवचः । नीपः 'नीपो धूलिकदम्बे स्यान्नीलाशोके च धन्विनि' इति विश्वादशोक इत्यर्थः । पल्लवेति । पदः लवः स्पर्शलेशस्तेन पल्लवी नतु पुष्पित इतियावत् । तस्मात् 'पादाहतः प्रमदया विकसत्यशोकः' इति वचनादुक्तपल्लवनरूपोऽर्थः कविसमयविरुद्धोऽपि भाव्युत्पातसूचकत्वाद्गुण एवेति