________________
साहित्यसारम् ।
[पूर्वार्धे ग्राम्योऽपि गुणतामेति हास्ये च मणितेऽधमे । द्रौणिश्चित्रोर्धवपनः पत्युर्मे भिल्युपस्वप ॥६३ ॥ संदिग्धोऽपि गुणः संदेहस्यैवोद्देश्यता यदि ।
प्रतिसूर्योदयं कान्त पद्मिन्यः सन्ति किं नवाः ॥ ६४ ॥ प्रभावम्' इति । अत्र निवातपद्मोदरसोदरत्वस्येव मदुदाहरणेऽपि अब्जवस्य प्रसन्नं वै प्रसन्नेव वेति प्रसन्नवस्येव क्रियाकञन्यतरविशेषणत्वासंभवात्सदुदाहरणलमेव । विस्तरस्तु वामनोकोदाहरणे काव्यप्रकाशोतक्रियाविशेषणत्वेन निर्वाहादनुदाहरणत्वं तदुक्तोदाहरणे कर्तृविशेषणत्वेन तथात्वं चेत्यादिस्तत्रैव द्रष्टव्य इति दिक् ॥ ६२ ॥ अथ ग्राम्यमर्थमपवदति-ग्राम्योऽपीति । अपिनायमर्थो द्योत्यते दूषकता चाश्लीलवत् । किंचैतादृशोक्तिकवलितो. विभावादिरूपोऽर्थो न रसाय पर्याप्यते भृष्टमिव बीजमङ्कुरायेतीति प्रदीपकारेण नित्यदोषत्वेन ग्राम्योऽर्थः सूचितोऽपीति । हास्ये हास्यरसे तथा अधमे अधमवक्तृकत्वेनातिनिन्ये मणिते कथाविशेषप्रसङ्गेन नीचत्रीपुंसयोः सुरतवार्तावर्णन इ. त्यर्थः । ग्राम्योऽर्थोऽपि गुणतामेतीति संबन्धः । उक्तहि चन्द्रालोके-'मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः । अत्र हास्यरसोद्देशे ग्राम्यवं गुणतां गतम्' इति । नचेदं शब्दपरमेवेति । अर्थपरत्वेऽप्यदोषात्प्रत्युत प्रकृतरसपोषाच्च । तस्मात्प्रदीपवाक्यं त्वेतद्भिनविषयमिति ध्येयम् । तदुदाहरति-द्रौणिरिति । द्रौणिः अश्वत्थामा । इदं हि तच्छिरोमणिच्छेदकालिकं कस्यचित्पामरस्य वाक्यम् । यथावा रसगङ्गाधरे-'श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा । अङ्गं गवां पूर्वमहो पवित्रं नवा कथं रासभधर्मपत्न्याः ' इति । द्वितीयस्याप्येवमुन्नेयमुदाहरणान्तरम् ॥ ६३ ॥ एवं संदिग्धमप्यपवदति-संदिग्धोऽपीति। तदुक्तं प्रदीपे–'यत्र तु संदेह एवोद्देश्यस्तत्रादोषत्वमेवेतीति । तदुदाहरतिप्रतीति । इदं हि प्रथमं प्रवसन्तं स्खकान्तं प्रति सतीवचः । अयि कान्त भो सुभग । एतेन रूपाद्यखिलगुणवत्त्वेनापि निरतिशयखीयप्रीतिविषयवं व्यज्यते । तथा वक्ष्यमाणव्यङ्गयमर्यादासिद्धसूर्योपमानार्हत्वं च । कान्तिमत्त्वेन कान्तत्वस्योभयसाधारण्यात् । पद्मिन्यः नतु बिसिन्यः । एवंच पद्मिन्याख्यस्त्रीजातिमत्त्वं खस्यां द्योत्यते । तेन सर्वथा वियोजनानर्हत्वं च । प्रतिसूर्योदयं नतु प्रतिप्रभातम् । तथाच तासां खनायकैकदर्शनविकसमानत्वेन ध्वन्यध्वसिद्धस्वकीयोपमानार्हत्वं ध्वन्यते । तेन यदा जडानां जडजानामपि पद्मिनीनां सामान्यत: सर्वासामपि खनायकैकदर्शनविकसनशीलत्वं तद्विरहे तु मुकुलितत्वमेव तदा चेतनायाश्चेतनजायाश्च तस्याः मम तथात्वे कैमुतिकन्यायः तासां को वा महोत्कर्ष इति युष्मद्विरहे मूर्छानयत्यं पातिव्रत्यगर्वराहित्यं तेनोत्तमनायिकात्वं च सूच्यते। नवाः नूनाः सन्ति किं इति प्रश्नः । तेन न सन्ति वेति द्वितीया कोटिलन्यते। तथाच कोटिद्वयेऽपि क्रमात् तत्क्षणाभिनव विकासः पद्मिनीलेनैव पतिविरहक्षण