SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०५ गुणरत्नम् ७] सरसामोदव्याख्यासहितम् । मनुष्यलोकविजयो जीवन्मुक्तत्वयोग्यता। पुत्री जातः शिखी ध्वस्त इत्यादावपि तत्क्रमात् ॥ ६० ॥ महाकविप्रयुक्तेषु शब्देष्वेवैष निर्णयः। नतु स्वेच्छाप्रयुक्तेष्वप्यघ्रिमञ्जीरशब्दवत् ॥ ६१॥ वामनीयमतेऽपुष्टोऽप्युपेयश्चेद्विशेष्यते। प्रसन्नेन मुखाब्जेन सा जगाद प्रियं प्रति ॥ ६२॥ गान्धर्वमादत्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्वहस्ते ॥ अलं ह्रिया मां प्रति य. न्मुहूर्त दयापरोऽभूः प्रहरन्नपि त्वम् । तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् । तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः । उदङ्मुखः सोऽस्त्रविदत्रमन्त्रं जग्राह तस्मानिगृहीतशापात्' इति ॥ ५९॥ मनुष्येति । एवं पुत्री जात इत्यत्र मनुष्यलोकविजय एव 'सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः' इति श्रुतेम॒तस्य पश्चात्पुत्रोऽस्तीतीहलोकस्था एव संभावयन्तीति तत्प्र. ख्यालक्षण एव तज्जयः प्रागुक्तरीत्या विशेष्यीभूतदेवदत्तस्य सिद्धत्वेन तज्जन्मविधानबाधात्पुत्रीति विशिष्टवाचकपदस्य शक्तिसंकोचेन पुत्ररूपविशेषणमात्रपरत्वेऽपि निरुक्तसंकुचितशक्तिमूलकव्यजनावृत्त्या द्योतित इति । तथा शिखी ध्वस्त इत्यत्रापि शिखी शिखावान् ध्वस्त उपशान्तः संन्यासेन विनष्ट इति, विशेष्यीभूतदेवदत्तस्य विद्यमानत्वेन ध्वंसलक्षणनिषेधबाधाद्विशेषणीभूतशिखामात्रपरत्वे निरुकरीत्या संकुचितशक्तिमूलकव्यञ्जनया जीवन्मुक्तत्वयोग्यता व्यज्यत इति च क्रमादनुक्रमेण तत्काव्यार्थपरिपोषरूपं फलमस्तीत्यन्वयः । आदिपदेनायं कोकिल: कलगीरिति प्राग्गृहीतवाक्यान्तरेऽपि कोकिलजात्यवच्छेदेनैव कलगीष्वसिद्धावुक्त विधानवैयर्थेऽपि तद्धनितवसन्तप्राप्त्यादि च फलमुन्नेयमेवेत्याशयः । तस्मान्न काप्यत्रानुपपत्तिरिति तत्त्वम् ॥ ६० ॥ इयमपि व्यवस्था प्राचीनमहाक. विप्रयोगेष्वेव नत्वेवंजातीयकाधुनिकविरचितप्रयोगान्तरेष्वपीत्यभिनवप्रयोगप्रदर्श. नपूर्वकं नियमयति–महाकवीति । तदुक्तं प्रदीपएव–'महाकविप्रयुक्तेष्वेवं वै समाधानं नतु खेच्छया कर्णावतंसादिवज्जघनकाच्यादिः करिकलभवदुष्टकरभादि वा प्रयोक्तव्यम्' इति ॥६१॥ अथ मतान्तरेण रीत्यन्तरादपुष्टार्थसमुपादानसमर्थनं कथयति-वामनीय इति । विशेष्यते विशेषणविषयीक्रियते चेदित्यर्थः । तर्हि अपुष्टोऽप्यर्थ उपेयः स्वीकार्य इत्यन्वयः । तदुक्तं प्रदीपे'वामनस्त्वपुष्टयस्यापि तत्रोपादानमुचितं यत्र तद्विशेष्यते । अन्यथा कुतस्तद्विशेषणान्वयः स्यात्' इति । तदुदाहरति-प्रसन्नेनेति । अत्र 'गद व्यक्तायां वाचि' इति स्मरणात्तद्व्यापारस्य च मुखमन्तरा संभवाभावान्मुखपदार्थस्यापुश्त्वेऽपि अब्जप्रसन्नपदार्थाभ्यां तस्य रूपकादिना विशेषणीयत्वात्तदुपादानं गुण एवेति भावः । यथावा काव्यप्रदीपकर्तुरेव पद्ये-'निवातपद्मोदरसोदराभ्यां विलोचनाभ्यामवलोकयन्ती । न केवलं यूनि मनोभवेऽपि व्यनक्ति किंचित्तपसः
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy