SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३०४ साहित्यसारम् । [पूर्वार्ध मद्रीत्या तु रघौ पित्राहतेभाप्तास्त्रसंस्मृतेः। निषिद्धेऽपि च लोभेन प्रवृत्तिद्योतनं फलम् ॥ ५९॥ खत्पक्षेऽप्याक्षेपजातमित्याशङ्कय तत्रत्वं विशेष संक्षिपन्दूषणं प्रमोषयति-मद्रीत्यात्वित्यादिद्वाभ्याम् । तुशब्दः प्रोक्तमतवैलक्षण्यार्थः । मद्रीत्या मदुक्तखपरेत्यादिग्रन्थपद्धत्येत्यर्थः । रघौ कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः। तत्र सद्विरदबृहितशङ्की शब्दपातिनमि विससर्ज' इति रघुवंशीयनवमसर्गपद्योक्तद्विरदबंहितशतीति वाक्य इति यावत् । पित्रिति । पित्रा खजनकेन अजेन आ ईषत् परावर्तनार्थमेव नतु हिंसनार्थे हतः इषुणा कुम्भस्थले ताडितः एतादृशः य इभः वनगजः मतंगमुन्यपराधजन्यशापप्राप्तमतंगजत्वः प्रियदर्शनाख्यगन्धर्वपुत्रः प्रियंवदशर्मा गन्धर्व इत्यर्थः । तस्मात् आप्तं स्वपित्रैव प्राप्तं यदा संमोहनाख्यं गान्धर्वास्त्रं तस्य या संस्मृतिः पूर्वतनतत्कथाश्रवणजन्यशाब्दबोधसंस्कारैवन्यनिरुक्तशब्दाकर्णनसमुद्दीपनजन्यज्ञानादिति यावत् । निषिद्धेति । लक्ष्मीकामो युद्धा. दन्यत्र करिवधं न कुर्यात् । 'इदं हि श्रीर्ये करिणः' इति मल्लीनाथोदाहृतवचनेन क्षत्रियाणां युद्धतरकालावच्छेदेन मृगयादौ गजवधस्य निन्दितत्वेन तादृशेऽपि कर्मणीत्यर्थः । लोभेन पितुर्यथा लाभः संपन्नस्तद्वन्ममापि स्यादिति तृष्णाविशेषेणेत्यर्थः। प्रवृत्तीति । निरुक्तकरिहनने दशरथस्यापि प्रवृत्तिसूचनमिति यावत् । फलं अहो एतादृशमहानुभावस्याप्युक्तराजसवृत्तिवशादुक्तनिषिद्धकर्मण्यपि प्रवृत्तिः संपन्ना तत्फलमपि सद्य एव श्रावणवधतन्मातापितृशापादि च संजातमतः कैव कथा मादृशां पामराणां सति विषयसन्निधाने निषिद्धेऽपि प्रवृत्तेस्तेन सर्वथा हितेच्छुना तादृग्विषयसंनिधानमेव न संपादनीयं । यदि कदाचिदैवात्संपन्नं चेत्तत्रातिभीतेन सावधानतमेन च सर्वदा भाव्यमिति काव्योपदेशरूपं प्रयोजनं भवतीति योजना । सर्वमिदं कथाजातं तत्रैव पञ्चमसर्गे प्रसिद्धम् । तद्यथा इन्दुमतीस्वयंवरार्थ रघुणा प्रेषितः ससैन्योऽजः कुमारः पथ्येव रेवा जलादुन्मग्नं सेनागजराजनिरीक्षणेन युयुत्सुं वनदन्तिनं निरीक्ष्येत्युपक्रम्य 'तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः । निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशाङ्गः ॥ स विद्ध. मात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः । स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुयॊमचरं प्रपेदे ॥ अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः । उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ मतंगशापादवलेपमूलाद. वाप्तवानस्मि मतंगजत्वम् । अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् । उष्णत्वमन्यातपसंप्रयो. गाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥ इक्ष्वाकुवंशप्रभवोचदा ते भेत्स्यत्यजः कुम्भमयोमुखेन । संयोक्ष्यसे स्वेन वपुमहिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥ संमोचितः सत्ववता त्वयाऽहं शापाच्चिरप्रार्थितदर्शनेन । प्रतिप्रियं चेद्भवतो न कुर्यो वृथैव मे स्यात्स्वपदोपलब्धिः ॥ संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy