________________
सरसामोदव्याख्यासहितम् ।
एवं क्वचिद्विशेष्येऽपि बाधे विधिनिषेधयोः । विशेषणैकवाचित्वं पुत्रासेत्यादिवाक्ययोः ॥ ५७ ॥ गजे वा गर्जिते किंचिन्न हेतूत्कर्षतः फलम् । पुत्री जातः शिखी ध्वस्त इत्यादावपि दृश्यते ॥ ५८ ॥
गुणरत्नम् ७ ]
३०३
गतैकयुक्त यभावेनानियमापत्तिकल्पनागौरवाभ्यां करिबृंहितस्थले हेतुपूत्कर्ष एवेष्टः पुष्पमालाद्युदाहृतावित्यनुपदोक्त हेतूत्कर्षस्य निष्प्रयोजनतायाः प्रतिपदमेव वक्ष्यमाणत्वेन च प्रौढिवादमात्रत्वान्मदुक्त सौरालोकप्रदीपदृष्टान्तानुगृहीतखपरोद्भासकस्यापीत्यादिनियमस्य कर्णावतंसादियावदुदाहरणानुगतत्वसंभवेन रुद्धक स्तूरीनिदर्शनलब्धयावदपेक्षितलोकोत्तरतत्तदर्थध्वनिलाभेन च काव्यार्थस्यातुलपरिपोषजनकत्वाच्चेत्याकूतेन यदि विशिष्टकवाचकशब्दस्य सति विशेषणसमवधाने विशेष्यमात्रवाचकत्वनियमो नैयायिकवत्तर्हि निरुक्तालंकारिकमत सिद्ध सकलसहृदयहृदयामोदिकर्णावतंसपदादिषु तद्गतत्वादिद्योतितनायिका सौन्दर्यादि कथं सिवेदित्याशङ्कामपि सोदाहरणव्यात्यन्तर सूचनेनापनयति - व्यञ्जनं लिति । तुशब्दः प्रोक्तशङ्काशान्यै । तत्रैवं प्रयोगः । सविशेषणो विशिष्टवाचकः शब्दः अलौकिकार्थव्यञ्जकः रुद्धशक्तिकत्वात् । यो यो रुद्धशक्तिकः सोऽलौकिकार्थव्यञ्जकः यथारुद्ध कस्तूरीति । सा हि पटादिना रुद्वैव भूरिसौरभमाविर्भावयतीति प्रसिद्धमेव । एवं च यत्रयत्र कर्णावतंसपदादौ ये ये ना - विकासौन्दर्यादयोऽर्थाः कव्याद्यभिप्रेतास्ते सर्वेऽपि निरुक्तशक्तिमूलानुगतव्यञ्जनावृत्तिमात्रेणैव सिद्ध्यन्तीति सर्वमनवद्यम् ॥ ५६ ॥ अथोक्तन्यायं विशिष्टवाचकस्य शब्दस्य विशेष्यबाधेन विशेषणमात्रवाचित्वस्थलेऽप्यतिदिशति — एवमिति। विशेष्ये विषयेऽपि विधिनिषेधयोः बाधे सति क्वचित्पुत्री आस पुत्री जातः।आदिना शिखी ध्वस्त इति वाक्ययोः । एवं प्रागुक्तविशेष्यमात्रवाचिकवद्विशेषणैकवाचित्वं विशेष्ये देवदत्तपुत्रशिखालक्षणविशेषणावच्छेदेन प्रवृत्तनिरुक्तज निध्वंसात्मकविधिनिषेधयोः प्रत्यक्षादिना बाधात्पुत्रादिविशेषणमात्रवाचकत्वं प्रागुक्तशक्तिसंकोचनेन विज्ञेयमित्यन्वयः । अत एवाहुः । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंकामतः सति विशेष्ये बाध इति ॥ ५७ ॥ ननु किमेतावता प्राचीनोक्तौ त्वदुक्तौ च किंचिद्युक्तिभेदेऽपि फलं तावदेकमेव तत्तदर्थध्वनिलक्षणमिति चेन्न । 'हेतुषूत्कर्ष एवेष्टः पुष्पमालाद्युदाहृतौ' इत्यत्रादिपदेन तत्संमते अयमेव करिबृंहितन्याय इति काव्यप्रदीपोतेः करिबृंहितायुदाहरणे गजपदार्थगर्जितपदार्थयोर्हेतूत्कर्षध्वननजन्यफलादर्शनात्पुत्री जात इत्यादावपि तदनवलोकनाच्चेत्याह - गजे वेति । गजे करिबृहितोदाहरणगत दन्तिनीत्यर्थः । गर्जिते बृंहिते वा हेतूत्कर्षतः कारणोत्कर्षध्वननादि • तियावत् । किंचित् खल्पमपि फलं तथा -! - पुत्रीत्यादि । आदिना अयं कोकिलः कलगीरित्यादि । अपिः समुच्चये । न दृश्यत इति संबन्धः ॥ ५८ ॥ समानमिदं