SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०२ साहित्यसारम्। [ पूर्वार्धे स्वपरोद्भासकस्यापि बलवद्भासके सति । स्वमात्रभासकत्वं स्यात्सौरालोके प्रदीपवत् ॥ ५४ ॥ विशिष्टवाचके शब्दे तद्वत्सति विशेषणे । विशेष्यमात्रवाचित्वं करिबृंहितवद्धौ ॥ ५५ ॥ व्यञ्जनं तु ततो रुद्धात्सामर्थ्यात्स्यादलौकिकम् । तत्तदर्थस्य कस्तूर्याः संरोधात्सौरभोपमम् ॥५६॥ किरणायमानत्वात् कपाटमित्यादौ तु गत्यन्तरविरहैकायत्ताध्याहारस्य सत्यां सर्वसंमतोत्तमतमगत्यां निदर्शनानहत्वात्किंचित्संकुचिताशक्त्यैवार्धनारीश्वरवत्सति सर्वदोषावमोषलाभे लक्षणादिजघन्यवृत्त्या महार्थलाभार्थ यत्नस्य वारस्त्रीतरसुदृशामयुक्तत्वेऽपि शक्तिमन्तरैव लक्षणादिनापि सर्वदोषनिकषणपुरःसरं सर्वतोषपरिपोषकार्थस्य विशुद्धबोधवल्लाभसंभवे सति शक्तिसंत्यागस्य सकलकोविदादरणीयतरत्वाच युक्तमेवोक्तव्यवस्थापन मित्याशयेनोक्तन्यायं करिबंहितशब्दादावपि प्राचीनमतसिद्धत्वेनातिदिश्यैतादृशस्थले स्वसंमतं किंचिद्युक्त्यन्तरमपि कथयितुं प्रतिजानीते-करिबंहितेति । प्राचां मत इति संबन्धः । तदुक्तं काव्यप्रदीपे पूर्वोक्तव्यवस्थां प्रकृत्य अयमेव करिवृंहितन्याय इति ॥ ५३ ॥ किं तदित्याकाङ्क्षां पूरयंस्तदाह-स्वपरेति युग्मेन । तदुदाहरति-सौरेति । यथा स्वपरोद्भास. कस्यापि प्रदीपस्य सौरालोकाख्ये सूर्यप्रकाशरूपे बलवद्भासके खापेक्षयाऽधिक खपरप्रकाशके सति स्वमात्रभासकलं लोके दृष्टं तद्वदित्युत्तरेणान्वयः ॥ ५४ ॥ विशिष्टेति । तद्वत्पूर्वपद्योक्तदृष्टान्तवत् । विशिष्टवाचके शब्देऽधिकरणेऽपि विशेषणेन येन विशेषणेन विशिष्टस्यार्थस्य प्रकृतशब्दो वाचकस्तस्यैव धर्मस्य वाचके तद्वाक्यावच्छेदेनैव शब्दान्तरे विद्यमाने सतीत्यर्थः । विशेष्येति । धर्मिमात्रवाचकत्वं स्यादित्यध्याहृत्यान्वयः । धर्माश्रयीभूताधिकरणैकबोधकलं भवेदिति भावः । तदुदाहरति-करीति । रघौ रघुवंशे यथा तदीयनवमसर्गे. 'कुम्भपूरणभवः पटुरुचैरुचचार निनदोऽम्भसि तस्याः । तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषु विससर्ज' इति । अत्र बृंहितं करिगर्जितमित्यमराढहितशब्द स्य करिसंबन्धित्वविशिष्टगर्जितपदशक्यमहाध्वनिवाचकलेन विशिष्टवाचकत्वेऽपि द्विरदपदाभिधेयतद्विशेषणीभूतकरिवाचकद्विरदपदाख्यविशेषणस्य विद्यमानत्वेन करिसंबन्धिखरूपविशेषणशून्यगर्जिताख्यविशेष्यमात्रवाचकत्वं ज्ञेयम् । एवमन्यत्रापि प्रागुक्तोदाहरणेष्वपीयाशयः॥ ५५ ॥ नन्वेवं चेत्तीत्रांशतो जहल्लक्षणासाध्यत. त्तदर्थावबोधकाद्विशिष्टवाचकानां पदानां सति विशेषणसमवधाने विशेष्यमात्रवाचकत्वमित्यादिनियमरूपनैयायिकोक्तव्युत्पत्तिविशेषात्सूर्यालोकप्रदीपरूपदृष्टान्त एवाधिको नत्वपरं किंचिदपीत्यतो वरं प्रागुपन्यस्तमालंकारिकमतमेवेति चेन्न । नैयायिकमतस्य तु काव्यार्थपरिपोषकत्वाभावदोषदुष्टत्वेनानादरणीयत्वादुपन्यस्तालंकारिकमतस्यापि कर्णावतंसमुक्ताहारपुष्पमालाद्यनेकोदाहरणेष्वनु.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy