SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ गुणरत्नम् ७] सरसामोदव्याख्यासहितम् । ३०१ निर्वाहाङ्गीकारे परम्परासंबन्धस्य प्रकृतार्थसाधकतया तस्य तु गङ्गायां घोष इत्यादिप्रसिद्धलक्षणोदाहरणेष्वदृष्टचरत्वात्सति विशेषणसमवधाने विशिष्टवाचकः शब्दः विशेष्यमात्रवाचकः अनुपयुक्तसंबद्धपदान्तरघटितशब्दत्वात्करिबृंहितशब्दवध्यतिरेके विशेषणासमवहितोक्तशब्दवच्चेत्यनुमानेन व्युत्पत्तिविशेषनियमादुक्तदोषावमोषे सति निरुक्ताननुगतकल्पनायाः स्वल्पमतित्वापादकत्वाद्यञ्जनावृत्तेरपि सर्वत्र शाब्दबोधे शक्तिलक्षणान्यतरमात्रसाध्यत्वेऽनुभूयमाने तृतीयवृत्त्यङ्गीकारस्य गौरवरौरवायितत्वेन खप्नेऽपि विपश्चिदादरणीयत्वरहितत्वादस्तं गतः सवितेत्यादौ तु तत्तदधिकारिणां निरुतवाक्यश्रवणोत्तरं जायमानविविधखखशाब्दबोधानुकूलानां निरुक्तशाब्दबोधान्यथानुपपत्त्या सिद्धानां मानसवाक्यान्तराणामेवावश्यकल्प्यत्वाकपाटमित्याद्यध्याहारोदाहरणे पदकल्पनावत्प्रकृतेऽपि वाक्यकल्पनायां बाधकाभावात्फलमुखगौरवस्यादूषकत्ववादस्य तु असत्यां तृतीयवृत्तौ व्योमकुसुमायमानत्वाच्च तुच्छैवेयं कर्णावतंसादिपदेषु तत्स्थत्वादिकल्पनया वोत्कर्षादिध्वननव्यवस्थाऽनास्थितप्रमाणपाटवभट्टारकदौवारिकाणामालंकारिकाणामिति चेदुच्यते । अर्थभेदभिन्नत्वेनोक्तव्यवस्थाविशेषस्य भिन्नतयाऽननुगतत्वेऽपि वोत्कर्षत्वरूपधमस्य सर्वत्रानुगतत्वात् । तस्यैव तत्र तत्रोपक्रमादिना तात्पर्यविषयीभूतत्वात् । तव तदभानेऽपि. अपाक्षिकप्रेक्षावतां शब्दार्थमर्यादाधुरंधरपुरंदरायितसतां तस्य करतलरसालफलायमानत्वात् । लक्षणैकलक्ष्यस्य तवायुघृत लाङ्गलं जीवनमित्यादौ भूरितरतत्तदुदाहरणान्तरेषु परंपरासंबन्धघटितेष्वपि गत्यन्तराभावेनोक्तादृष्टचरत्वोक्तरयुक्ततमत्वानिरुक्तानुमानस्य तु तर्कानुगृहीतत्वेनैव साध्यसाधकतायां यदि विशेष्यमात्रवाचको न स्यात्तर्हि अनुपयुक्तसंबद्धपदान्तरघटितशब्दोऽपि न स्यात् । यतस्तथा वर्तत एवातो विशेष्यमात्रवाचक एवेत्यादिरूपस्य तस्य प्रकृ. तकाव्योदाहरणेषु कवेर्वोत्कर्षमात्रतात्पर्यकत्वेन तत्परिपोषार्थमेव विशेषणवाचंकशब्दसमवहितस्यापि विशिष्टवाचकशब्दस्य तेन प्रयुक्तत्वेनाप्रयोजकवादियं गौः सास्नावतीत्याद्यभ्रान्तलौकिकवाक्यादावपि सानायां किंचित्प्राशस्त्यमदृष्ट्वा प्रमाणचणैर्वक्तुमयुक्तत्वेन वोत्कर्ष एव पर्यवसानात् । अन्यथोन्मत्तप्रलपितत्वापातात् । व्यञ्जनावृत्त्यनङ्गीकारस्य तु कुलाचारायमाणत्वात् । अद्वैतिनां व्यञ्जनावृत्त्यनङ्गीकारस्तु वेदैकविषयक इति न तन्निदर्शनेन लौकिकवाक्येऽपि तदनङ्गीकारः स्यात् । अन्यथा शाब्दिकानामपि तदनङ्गीकारापत्तेः । अधस्तादेव भूरितरं तस्याः समर्थितत्वात् । तथैव सर्वसाधारण्येनानुभूयमानत्वादस्तं गतः सवितेत्यादावनेकवाक्यतत्कारणकलापादिकल्पनापेक्षया कृप्तशब्द एव तत्तदधिकार्यवच्छे. देन विविधशाब्दबोधजनिकाया व्यञ्जनावृत्तेरेव कल्पनलाघवस्य बालैरपि समाकलनीयत्वादेकस्मिन्नेव चन्द्रे खाभ्युदयमात्रेण चकोरतर्पकत्वकुमुदविकासत्वचक्रवाकदाहकत्वचन्द्रकान्तद्रावकत्वविरहिणीक्षोभकत्वादिशके: सर्वसंमतत्ववत्प्रकृतशब्दशक्तरप्यचिन्त्यमहिमत्वस्य पूर्वाचार्यचक्रवर्तिचरणनखचन्द्र
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy