________________
३००
साहित्यसारम् ।
करिबृंहितशब्दादावयमेव नयो मतः । प्राचां मया तु तत्रेदं युक्तयन्तरमपीर्यते ॥ ५३ ॥
[ पूर्वार्धे
दितदिशस्ततः । आययुर्भृङ्गमुखराः शिरः शेखरशालिनः ' । अत्र शिरःपदादाने शेखरखाम्यमात्रं लभ्यते नतु तदलंकृतत्वम् । तथाच तत्प्रतीतेरदोषत्वम् - 'विदीर्णाभिमुखारातिकराले संयुगान्तरे । धनुर्ज्या किणचिह्नेन दोष्णा विस्फूर्जितं तव' । अत्र धनुः शब्दो ज्याया आरूढत्वप्रतिपादनाय तच्च किणस्य प्रहारकृतत्वप्रतिपत्तये यत्र त्वारूढत्वं तत्प्रतीतिप्रयोजनं वा नास्ति तत्र धनुः शब्दोपादानमपि । यथा -- ' ज्याबन्धनिःष्पन्दभुजेन यस्य विनिःश्वसद्वऋपरंपरेण । कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमाप्रसादात्' । इत्यत्र 'प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् । अत्र हारशब्दस्य मुक्तासंदर्भशक्तत्वेऽपि न मुक्ताशब्दवैयर्थ्यम्' । अन्यरत्नामिश्रितत्वप्रतिपादनेनोत्प्रेक्षायामुपयोगात् । सौन्दर्य संपत्तारुण्यं यस्यास्ते ते च विभ्रमाः । षट्पदान्पुष्पमालेव कान्ताकर्षति सा सखे' । अत्र मालाशब्दो यद्यपि पुष्पस्यैव स्रजि शक्तस्तथापि न पुष्पपदमपुष्टार्थे लक्षणयोत्कृष्टत्वप्रतिपादकत्वादिति । अधित्यकाद्युदाहरणे तु रघुवंशे यथा -- स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम्' | 'सकी च कैमरुतपूर्णरन्ध्रः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुत्रेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः' इति । अत्र प्रथमोदाहरणे तावदधित्यकापदस्य पर्वतोर्ध्वभूम्येकशक्तत्वेन सानुमत इत्यस्यापुष्टार्थकत्वेऽपि निरुक्तभूम्युपादाने पर्वते सानूनि शिखराणि विद्यन्ते यस्येति व्युत्पत्त्या महोच्चत्वलक्षण उत्कर्ष एवोपमेयभूतायां नन्दिन्यां कामधेनुजन्यत्वेन खप्राणपणेनाप्यवश्यरक्षणीयत्वव्यञ्जनार्थ कवेः सूचनीयो न वस्तुतः सोस्ति । एवमन्त्येपि कीचकपदस्य वातपूरणरणद्वेणुशक्तत्वेन मारुतेत्यादेस्तथात्वभानेऽपि निजबीजे विजातीयगम्भीरखराविष्करणनिपुणजातीयत्वलक्षणप्रकृतनृपतियशसि वनदेवतागीय मानतोत्प्रेक्षणार्थं कवेः संमत इत्याकूतम् । हारादिपदानां मुक्तावल्यादिष्वेव शक्तिग्रहः कोशादेरेव । तद्यथा 'हारो मुक्तावली' इति, ‘माल्यं मालास्रजौ ' इति, 'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' इति, 'वेणवः कीचकास्ते स्युर्ये खनन्त्यनिलोद्धताः' इति चामरे । कविसमयेऽपि - 'त्वत्कीर्तिमौक्तिककुलानि गुणैस्त्वदीयैः संदर्भितुं निखिलदिग्ललनाः प्रवृत्ताः । नान्तो गुणेषु न च कीर्तिषु रन्ध्रलेशो हारो न जात इति तास्तु मिथो हसन्ति' इति । यथावा - 'हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकरा:' इति च । अत्र पूर्वार्धोक्तरूपकाद्यन्यथानुपपत्त्या हारपदस्य मुक्तावल्यामेव शक्तिरध्यवसीयते । एवं मालाद्युदाहरणान्यपि धीरैयेयानीति दिक् ॥ ५२ ॥ ननु निरुक्तव्यवस्थायास्तत्तदर्थभेदभिन्नत्वेनाननुगततया गौरवाद्व्यञ्जनावृत्तेरेवासंभवेन तत्साध्यार्थपरिपोषस्य दूरोत्सारितत्वाल्लक्षणयैव प्रकृतार्थ
1