________________
२९९
गुणरत्नम् ७] सरसामोदव्याख्यासहितम् ।
कर्णेवतंस इत्यादिव्युत्पत्त्या तत्स्थता क्वचित् । मुक्ताहारे त्वमिश्रत्वं लक्षणातोऽवबोध्यते ॥५१॥ हेतुषूत्कर्ष एवेष्टः पुष्पमालाद्युदाहृतौ।।
तेन नापुष्टिरत्रास्ति पुनरुक्तिरपि क्वचित् ॥५२॥ मौक्तिकम् । मातमौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूमिकाः कट्यां काञ्चनकिकिणीर्विनिदधे रत्नावतंसं श्रुतौ' इति । रसतरङ्गिणीकारोपि-'श्वासोल्लासप्रचलदधरोपान्तमामीलिताक्षं क्रीडाकुले तपनदुहितुः सुप्यतः श्रीमुरारेः । अन्तः स्मेरं निभृतनिभृतं कापि कर्णावतंसं काचिद्वाह्वोः कनकवलयं दाम मुष्णाति काचित्' इति । अमरकृता तु 'पुंस्युत्तंसावतंसौ द्वौ कणपूरेपि शेखरे' इति द्वयोरपि कर्णपूरादिवाचित्वमुक्तम् । एवंच कविभिः प्रयुज्यमानः कर्णावतंसादिपदार्थः किमवतंसपदस्य रत्नावतंसं श्रुताविति प्रबलतमप्रमाणात्कविसमये कर्णपूर एव सुधांशुकलितोत्तंस इत्यादावुत्तंसपदस्य शेखरैकवाचकलवदङ्गीकृतशक्तिकत्वेन कर्णपदार्थस्याप्रयोजकत्वान्यलभ्यत्वाभ्यामपुष्टतामुपैत्युतशब्देन प्रतिपन्नत्वे सति पुनस्तेनैव प्रतिपादित इति प्रदीपोक्तपुनरुक्तार्थत्वस्योक्तशक्त्यैव सत्वेन पुनरुक्तत्वमुपैतीति प्रश्नाशयः । इतिपदं शङ्कोपसंहारपरम् । तत्समाधानकथनमथ प्रतिजानीते-अत्रेत्यादिना । निरुक्तपूर्वपक्षविषय इत्यर्थः ॥ ५० ॥ अथ प्रतिज्ञातसमाधानमेव विषयविभागेन त्रिविधं बोधयति-कर्णेवतंस इत्यादी. त्यादि द्वाभ्याम् । आदिना शिरःशेखरः धनुर्येत्यादौ शिरसि शेखर इत्यादि ज्ञेयम् । तत्स्थता तेषु कर्णादिषु स्थितित्वमित्यर्थः । तेन शोभातिशयादिः सूच्यते । मुक्तेति । तुशब्दः पूर्ववैलक्षण्यार्थः । अमिश्रत्वं हीरकपद्मरागादिरत्ना. न्तराशबलितत्वमित्यर्थः । तेनापि सुषमाविशेष एव व्यज्यते । लक्षणातः जहलक्षणयेत्यर्थः ॥ ५१ ॥ हेतुष्विति । हेतुषु उपादानादिकारणेष्वित्यर्थः । उत्कर्षः सौरभ्यभूयौनत्यं गाम्भीर्यादिप्रयोजकजातित्वगजराजत्वादिलक्षणो महिमेत्यर्थः । लक्षणात इत्यत्राप्यनुकर्षणीयम् । पुष्पेति । आदिना सानुमतोऽधित्यकाकीचकमारुतपूर्णरन्ध्रा द्विरदबंहितं इत्यादि बोध्यम् । किमेतावता प्रकृत इत्यत आह-तेनेति । सर्वं चैतदुक्तं प्रदीप एव । अवतंसादिपदैर्जात्यादिपुरस्कारेण कर्णाभरणादीन्येवोच्यन्त इत्यर्थप्राप्तौ कर्णपदादीनां यद्यप्यपुष्टार्थत्वं पुनरुक्तत्वं वा युज्यते तथापि क्वचित्कर्णेऽवतंस इति व्युत्पत्या क्वचिल्लक्षणादिना च कर्णस्थित्यादिरूपस्याधिकस्य विवक्षितार्थस्य प्रतिपत्तेरदोषत्वम् । यथा-'तस्याः कर्णावतंसेन जितं सर्वविभूषणम् । तथैव शोभतेऽत्यर्थमस्याः श्रवणकुण्डलम्'। अत्रावतंसस्य कर्णस्थित्यवस्था कर्णपदोपादानेनावगम्यते । तदवगत्या किं प्रयोजनमिति चेत् । वर्णनीयोत्कर्षः । कथमितिचेत् । न खरूपतोऽस्य विभूषणजेतृत्वं किंतु तत्कर्णस्थित्येति पर्यवसानात् । एवं श्रवणकुण्डलपदेऽप्यूह्यम् । न केवलं कर्णश्रवणपदयोरेवायं महिमा किंत्वन्येषामपि । यथा-'अपूर्वमधुरामोदप्रमो