________________
२९८
[ पूर्वार्धे
साहित्यसारम् । स्ववैयाकरणत्वस्य ख्यापके चापि वक्तरि । गुणः कष्टोऽपि ते भूयादादैच्संज्ञायशः श्रियाम् ॥ ४८ ॥ गुणः स्यात्पुनरुक्तोऽपि पदार्थादिःप्रयोजने । ब्रह्मात्मैवाखिलं दृश्यं द्वैतं किमितरचितेः ॥४९॥ ननु कर्णावतंसादिपदार्थः किमपुष्टताम् ।
उपैति पुनरुक्तत्वमुतेत्यत्राभिधीयते ॥ ५० ॥ मरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः। इति। अत्रोदकलक्षणस्यार्थस्य दीर्घिकापदेनैव सिद्धत्वाद्वर्णनीयस्त्रीसादृश्यरूपमुख्यार्थे पोषाजनकत्वाचापुष्टत्वेऽपि यमकवशाद्गुणत्वं ज्ञेयम् । उक्तंहि प्रदीपे प्रकृतदोषं प्रकृत्य दूषकताबीजं चाशक्त्युनयनेन श्रोतुर्वैमुख्यम् । अतएव यमकादावदोषता । तत्रालंकारान्तरारम्भेणाशक्त्यनुन्नयनादिति ॥ ४७ ॥ एवं कष्टमप्यपवदति-स्वेति । तमुदाहरति-ते भूयादिति । हे राजन् , ते तव यशःश्रियां कीर्तिसंपदाम् आदेच संज्ञा 'वृद्धिरादैचू' इति सूत्रेण विहिता या आदेचां आकारैकारौकाराणां वृद्धिरूपा संज्ञा सा भूयात् वृद्धिर्भवलित्याशीर्वचनवक्तुः खवैयाकरणत्वख्यापकत्वानिरुक्तार्थः कष्टसाध्यत्वेन क्लिष्टोऽपि गुण एवेति भावः । यथावा-'श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् । तोष्टयमानोऽप्यगुणो विभुर्विजयतेतराम्'इति।(श्रोत्रियाणां भावःश्रौत्रं अर्हतां भावः आर्हन्ती श्रौत्रं च आहेन्ती च श्रौत्रार्हन्ती ताभ्यां वित्ताः श्रौत्रार्हन्तीचणास्तैः छन्दोध्ययनशीलत्वपूज्यत्वविख्यातैरित्यर्थः । तथा गुण्यैः प्रशस्ताः गुणाः येषां ते तथा तैरित्यर्थः । ) अत्र महर्षिभिरिति विशेष्यमात्रेणैवोक्तविशेषणार्थसिद्धौ जडभरतविश्वामित्रदुर्वासःप्रभृतिव्युदसनेन वसिष्ठादिग्रहस्य क्लिष्टत्वेऽप्यतोगुणत्वम् ॥ ४८ ॥ तद्वत्पुनरुक्तमप्यपवदति-गुणः स्यादिति । प्रयोजने सतीत्यर्थः । आदिना वाक्यार्थः । तावुदाहरति-ब्रह्मेति । अत्रात्मपदार्थस्य ब्रह्मपदार्थाभिन्नत्वेन तथा तृतीयचरणवाक्यार्थस्यैव चतुर्थचरणवाक्यार्थत्वात्तस्य पौनरुक्त्येऽपि 'आवृत्तिरसकृदुपदेशात्' इति न्यायेन ज्ञानदाळसंपादनलक्षणप्रयोजनसत्त्वाद्गुणत्वमेवेति तात्पर्यम् । यथावा-'अखण्डं सच्चिदानन्दं चन्द्रखण्डशिखण्डकम् । उमामिश्रितमात्मानं परमात्मानमाश्रये' इत्यादि । उक्तंहि प्रदीप एवेमं प्रकृत्य । दूषकताबीजं च निष्प्रयोजनेनाभिधानेन श्रोतुर्वमुख्यम् । अतएव प्रयोजनसत्वेनादोषत्वादनित्योयं दोष इति ॥ ४९ ॥ तत्रापुष्टपुनरुक्तयोरुभयोरप्यर्थयोः पदार्थविशेषावच्छेदेन संभवात्को वा निर्णेय इति प्रसङ्गात्संदिहानः पृच्छति-नन्विति । कर्णावतंसः कर्णपूरः श्रवणस्थापितकुसुमादिरितियावत् । आदिना मुक्ताहारादिः । तथाचाहुः श्रीमद्भाष्यकारचरणाः-'मजीरौ पदयोर्निधाय रुचिरौ विन्यस्य काञ्ची कटौ मुक्ताहारमुरोजयोरनुपमा नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीः करेषु क्रमात् ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् । धम्मिल्ले तव देवि हेमकुसुमान्याधाय भालस्थले मुक्ताराजिविराजिहेमतिलकं नासापुटे