________________
गुणरत्नम् ५] सरसामोदव्याख्यासहितम् ।
ओजस्विनि रसेऽवश्यं कठोरत्वमपीप्सितम् । रे दुःशासन ते रक्तैः क्षमापि प्रक्षाल्यते मया ॥ ४२ ॥ विदेहावस्थवाक्यादौ गुणः संबन्धवर्जितम् । इन्द्रजालमिदं धन्याः सद्गुरोः पादरेणवः ॥४३॥ वर्णदोषापवादोऽत्र त्वेक एव त्रयोदश । पददोषापवादाश्च द्वादशैवातिदैशिकाः ॥४४॥ पदैकदेशगाः षट्च वाक्यगास्ते चतुर्दश। इति शब्दापवादाः षट्चत्वारिंशदुदीरिताः॥ ४५ ॥ अष्टाधिकनवत्युक्तदोषेभ्यस्तेन शेषिताः। नित्यदोषा द्विपञ्चाशदेव त्याज्याः सुवाक्षु ते ॥४६॥ यमकादावपुष्टार्थोऽप्युपैति गुणतामिह ।
संपत्तिश्च विपत्तिश्च स्पृशति क्वापि किं चिति ॥ ४७॥ नात्तदनुकूलमाधुर्यध्वनकसुकुमारवर्णघटितमृदुबन्धस्यैव सत्वमन्यत्र तु तेन कवित्ववीरव्यञ्जनात्तदनुगुणस्य गाढस्यैव तस्य सत्वमिति वैषम्येऽपि गुणत्वमेव ॥४१॥ ओजस्विनीति । कठोरत्वं वक्ष्यमाणसौकुमार्याभावः । रे दुःशासनेति । इदं तं प्रति भीमवाक्यम् । तेनात्र रौद्ररसवत्त्वेन कठोरबन्धस्य तदुपयुक्तत्वाद्गुणत्वमेव । यथावा हनूमन्नाटके-'येन त्रिःसप्तकृत्वो नृपबहलवसामांसमस्तिष्कपङ्क प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः । यस्य स्त्रीबालवृद्धावधि निधनविधौ निर्दयो विश्रुतोऽसौ राजन्योचासकूटकथनपटुरटद्धोरधारः कुठारः' इति ॥ ४२ ॥ अथ संबन्धवर्जितमप्यपवदति-विदेहेति । विदेहावस्थो जडभरतादिः । तदुदाहरति इन्द्रेति । इदं खमनस्येव निरुक्तावस्थस्य जडभरतादेवाक्यम् । इदं दृश्यत्वावच्छेदेन यावद्वैतजालमित्यर्थः । इन्द्रजालं मन्त्रादिक्षुब्धमायाविशेषपरिदर्शितभ्रमकुलमिवेति यावत् । कुत इदं तत्राह-धन्या इति । अत्रोक्तसंगतेः शाब्दत्वाभावेन वैसांगत्येऽपि निरुक्तवाक्यविन्यासान्यथापत्तिसिद्धविदेहावस्थवाक्यत्वेन शान्तरसपरिपोषकत्वाद्गुणत्वमेवेति भावः।यथावा तृप्तिदीपे श्रीभारतीतीर्थगुरुचरणवचः-'अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः। अहो ज्ञानमहो ज्ञानमहो सुखमहोसुखम्' इति ॥ ४३ ॥ एवं सर्वेषां शब्ददोषापवादानां प्रत्येकसंख्याकथनपूर्वकं संख्यां निरूप्यावशिष्टानां प्रागुक्त निखिलशब्ददोषेभ्यो नित्यदोषाणां संख्यां कथयन् काव्येष्ववश्यं तत्त्याज्यतां विधते-वर्णदोषेत्यादित्रिभिः । आतिदैशिकाः वाक्यदोषापवादाः पददोषापवादातिदेशसंभवाः द्वादशैवेसन्वयः ॥ ४४ ॥ पदैकेति । वाक्यगता इत्यर्थः ॥ ४५ ॥ तेन निरुक्तापवादसंख्यानेन ॥ ४६ ॥ अथार्थदोषेषु कांश्चिदपवदन्नादावपुष्टमपवदति-यमा कादाविति । आदिनानुप्रासादिः । तमुदाहरति-संपत्तिरिति । यथावा रघुवंशे–'शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः। विकचता