SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९६ साहित्यसारम् । गुणोऽशरीरमप्यर्थात्क्रियाप्तौ चिन्मयं जगत् । -अतिमत्रिधापि स्यागुणस्तत्तद्रसो यदि ॥ ३९ ॥ शैथिल्यं मधुरेऽभीष्टं किमद्वैतस्य शिष्यते । वैषम्यं रसभेदेन मतं तदनुयोगि चेत् ॥ ४० ॥ भो वैदेहि तवापाङ्गैरनङ्गोऽप्येति साङ्गताम् । गर्वसर्वस्वभूतैस्ते किं भार्गव विकत्थनैः ॥ ४१ ॥ [ पूर्वार्ध एवमशरीरमप्यपवदति - गुणोऽशरीरमपीति । आर्थिकाख्यातलाभे सत्यशरीराख्यप्रागुक्तदोषदुष्टमपि वाक्यं गुणो भवतीतिभावः । तदुदाहरति — चिदिति । अत्र अस्तीति क्रियालाभस्त्वार्थिक एव सहृदयानां संपद्यत इति नैवास्य दोषते - त्याशयः । ‘अशरीरं क्रियाहीनं ब्रह्म कूटस्थमद्वयम्' इति दोषरत्नीयपद्ये तु अस्त्य - स्यस्मीति त्रै पुरुषक्रियान्यतमाया यस्याः कस्याश्चिदपि तस्याः संभवेन निर्णयाभावान्नैव तत्रार्थिकतत्संभव इति तत्र दोषत्वमेव । प्रकृते तु जगदुद्देश्य कचिन्मय - त्वविधानान्यथानुपपत्त्यास्तीति प्रथम पुरुषस्यैवार्थिकः खारसिको लाभो भवतीत्युचित एवायमपवादः । यथावा मदीय एव विशुद्ध माधवाभिधे नाटके - ' रम्भास्तम्भेऽत्र संसारे पूर्वकर्पूरकः शुकः । यमेव पश्यतां दृष्टिरमृतीभवति क्षणात् ' इति । अथारीतिमदपवदति - अरीतीति । यदि तत्तद्रसस्तर्हि त्रिधापि शैथिल्यादिपूर्वोक्तप्रकारेण त्रिप्रकारकमप्यरीतिमत्संज्ञकं वाक्यदोषजातं गुणः स्यादिति संबन्धः ॥ ३९ ॥ तत्र कस्मिन्र से सति कस्य तद्भेदस्य गुणत्वमिति विशेषजिज्ञासायां विषयविभागेन तदुदाहरति — शैथिल्यमित्यादित्रिभिः । शैथिल्यं पूर्वोक्तस्य वक्ष्यमाणस्य च श्लेषाख्यगुणस्याभावः । मधुरे शान्तादौ मधुररस इत्यर्थः । तदुदाहरति - किमिति । यथावा मदीयाद्वैतसुधायाम् — 'किं मे मानस संकल्पै - स्तदाधारस्य साक्षिणः । मृगाम्बुनद्याः शैत्यात्किं सौरालोकः प्रकम्पते' इति । वैषम्यमिति । तदपि वक्ष्यमाण समताभाव एव । तदिति । तत्तद्रसानुगुणं चेदित्यर्थः ॥ ४० ॥ भोवैदेहीति । इदं हि सीतास्वयंवरोत्तरं अयोध्यामार्गे परशुरामागमनभीतया कटाक्षितस्य श्रीरामस्यैव तां प्रत्युत्तरम् । तथा च जीवतः क्षत्रैकवीरस्य सद्यः प्रभग्नहरशरासनस्य रामस्यापि मे तैर्भीतिकातरैरपि परशुरामपराजयप्रयोजकवीररससूचनं कैमुत्यसिद्धमेवेति भवत्या नैव भेतव्यमिति भावः । गर्वेति । अत एवाथेदं भार्गवरामं प्रति तस्यैव वचः । एवं चेह पूर्वार्धस्य सुकुमारवर्णघटितत्वेनोत्तरार्धस्य च कठोरवर्णघटितत्वेन वैषम्याख्यवाक्य दोषापत्तावपि क्रमाच्छृङ्गारवीरयोरेव प्राधान्येन ध्वननात्तदानुगुण्यमेव मृदुगाढ बन्धयोस्तयोरिति युक्तमेवोक्तापवादोदाहरणत्वमिति तत्त्वम् । यथावा प्रसन्नराघवे - 'यन्त्राकृष्टसुवर्णसूत्रमिव यत्पयं सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव स्वच्छः पदार्थादयः । तत्राप्युलस दंशुकान्त विलसत्कान्ताकु चान्तोपमं व्यङ्गथं यत्तदहो कवित्वमपरं वाग्देवतोपलव:' इति । अत्र तृतीयचरणे उपमालंकारेण शृङ्गारव्यञ्ज
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy