________________
गुणरत्नम् ७ सरसामोदव्याख्यासहितम् ।
समासश्चेहुणत्वं स्याद्भिन्नलिङ्गोपमेऽपि च । चन्द्रानना तडिद्वर्णा फुल्लोत्पलहंगेतिका ॥ ३८॥
कामेति । दुस्तरत्वात्स्मरसागरे पतितं निमग्नं मां कृपया अनुकम्पया उद्धार्य प्रोद्धत्य भयतः नरकादिदुःखभयात् संततं निरन्तरं पात संरक्षध्वमित्यन्वयः । अत्र नैसर्गिकवाक्यान्तरगर्भितं वाक्यैकवाक्यतया च तथेति द्विविधेपि तस्मिन् यथाश्रुतरीत्या निरुक्तान्वयरीत्या चैतस्मिन्गर्भितत्वेन स्फूर्यमाणे वाक्यदोषे सति प्रतीतिविच्छेदविरहाद्गुणत्वमेवेति भावः । तथा चोक्तमेतत्प्रकरणे काव्यप्रदीप एव । अतो न यत्र प्रतीतिर्विच्छिद्यते तत्र नायं दोष इति । यथावा रसगङ्गाधरप्रसादोदाहरणे'चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा । एतत्त्वां प्रतिवेदयामि मम चेदुक्किं हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति' इति । इह तावत् एतत्त्वां प्रति वेदयामीति प्रतिज्ञाय तत्कथनात्प्रागेव मध्ये मम चेदुक्तिं हितां मन्यस इति तदुपोद्धातीभूतवाक्यान्तरेण खभावतएवैकतापन्नतया गर्भितत्वेऽपि प्रतीति विच्छेदराहित्याद्गुणत्वम् । यथावा गोवर्धनसप्तशत्याम्-'अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः । दुर्लङ्घयवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि' इत्यत्र हे प्रपापालि, त्वं प्रसीद । किमर्थमितिचेत् । अवधीत्यादि शिष्टं पूर्वार्ध । को वा तत्र मत्प्रतिबन्ध इति चेत् । दुर्लङ्घयेति शिष्टमुत्तरार्धं योज्यम् । तेनास्य वाक्यैकवाक्यतार्थ अवधीत्यादियोजनेन वाक्यान्तरगर्भितत्वप्रतिभानेऽपि वाक्यार्थप्रतीतिविच्छेदविरहाद्गुणत्वमेवेति संक्षेपः ॥ ३७ ॥ एवं भिन्नलिङ्गोपममप्यपवदति-समासश्चेदिति । यदि समासः चेत् काव्यं यदि समासघटितं भवति तर्हि तदवच्छेदेनैव विद्यमाने भिन्नलिङ्गोपमे दोषे गुणत्वं स्यादित्यन्वयः । यत्रोपमावाचकं पदं भिन्नलिङ्गमुपमेयवाचकपदापेक्षया विजातीयलिङ्गकं स दोषोऽपि तद्वाक्यस्य समस्तत्वे गुण एव भवतीति भावः । तदुदाहरति-चन्द्रेति । इयं कैतीति संबन्धः । एतेनाद्भुतवं द्योत्यते । तदेवोपपादयंस्तां त्रिभिर्विशिनष्टिचन्द्राननेत्यादिभिः । इह चन्द्रपदस्योपमानवाचकस्य पुंलिङ्गत्वादुपमेयवाचकस्याननपदस्य नपुंसकलिङ्गत्वाच भिन्नलिङ्गोपमत्वाख्यदोषसंभवेऽप्यस्य समासघ. टितत्वेन स गुण एवेत्यर्थः । एवं तडिदित्यादावपि बोध्यम् । नन्वत्र तडितः वर्ण इव वर्णो यस्या इति व्युत्पत्तौ दोषस्यैवानवसराहूरे तस्य गुणवसंपादन मिति चेद्वाढम् । तडिदिवेति व्युत्पत्तेरेव वर्णपदसमभिव्याहारेण तडित्पदस्य तद्गौरिमग्राहकत्वेन लघुतया निरुक्तदोषस्य स्पष्टमेव भानात् । यथावा कुवलयानन्दे–'अमरीकबरीभारभ्रमरीमुखरीकृतम् । दूरीकरोतु दुरितं गौरीचरणपङ्कजम्' इति । अत्र कबरीभारभ्रमर्योश्चरणपङ्कजयोश्च भिन्नलिङ्गत्वेऽपि समासाद्गुणत्वमेवेति दिक् ॥ ३८ ॥