________________
२९४ साहित्यसारम् ।
[ पूर्वाध कादिलाभोऽर्थान्नोचेगुणोऽर्धान्तरगैकवाक् । अङ्गनेऽपाङ्गभङ्गैस्ते तुङ्गानङ्गं तरङ्गति ॥ ३५॥ अन्तरङ्गमतोऽसङ्गः श्रीरङ्गः किं मयाप्यते । प्रतीतिश्चेन्न विच्छिद्येहुणो गर्भितमप्यलम् ॥ ३६॥ भोभो पतितमाचार्याः शृणुध्वं कामवारिधौ ।
कृपयोद्धायें मां यूयं भयतः पात संततम् ॥ ३७॥ मित्याशङ्कोपशान्तिहेतुत्वेनोत्तरार्धे यतः गुहगणेशाभ्यां कर्तृभ्यां युक्तं 'युज समाधौ' इति स्मरणात्समाहितं अर्थात्सदाशिव एव समाधिः साधितस्तथा वेदैः सुरैरपि च कर्तृभिः स्तुतं तत्स्तवनमकारीति वाक्यान्तरोदयाद्गुणत्वं बोध्यम् । उक्त हि प्रदीपकृतेदं प्रकृत्य--निराकासत्वं च दूषकताबीजम् । अतश्चानित्यदोषोऽयं वाक्यान्तरारम्भे तदभावात्' इति । एतेनैतन्मङ्गलमपि व्याख्यातम् । तत्रापि गौरीत्यादि विशेषणेन मोक्षे ते पुमर्थदातृत्वध्वनावपि तद्धननार्थ नन्दितेला दिविशेषणेष्टेः ॥ ३४ ॥ एवमर्धान्तरैकवाचकमप्यपवदति-कर्नादीति । आदिना कर्मक्रियादिसंग्रहः । अर्धान्तरगेति । अन्यदर्धमित्यर्धान्तरं तत्र गच्छतीति तथा तादृशी एकवाक् एकपदं यस्य तद्वाक्यं तथेत्यर्थः । तदुदाहरति-अङ्गन इति । हे अङ्गने, ते अपाङ्गभङ्गैः कटाक्षच्छटाभिरित्यर्थः । अन्तरङ्गं अन्तःकरणम् । तुङ्गेति । तुङ्गः महान् अनङ्गः कामो यथा स्यात्तथा तरङ्गति चेष्टत इति उत्तरश्लोकार्धगतमन्तरङ्गाख्यमेकपदं गृहीला योजना ॥ ३५ ॥ अतः कारणात् मया असङ्गः शुद्धाद्वैतस्वरूपः श्रीरङ्गः पद्मापतिः अवाप्यते किं, अपितु नैव प्राप्यत इत्यन्वयः । इहार्धान्तरैकवाचकत्वेऽपि कर्तृपदस्यार्थिकलाभासंभवाद्गुणत्वं ज्ञेयम् । तदुक्तमेतत्प्रकृत्य काव्यप्रदीपकृतैव । 'यस्य तु कर्नादेर्न तथा प्रतिपत्तिस्तस्यार्धान्तरोपादानेऽप्यात्मलाभ एव नास्ति । तल्लाभेऽपि वा न दोषत्वमिति । अयमाशयः-यस्य तु कादेः खतत्रः कर्तेत्यायुक्तक्रियाश्रयाभिधायकपदादेरित्यर्थः । तथा आक्षेपादिना प्रतिपत्तिः प्रमि तिर्न भवति । तस्य कर्नादेः-अर्धेति । अन्याधै उपादाने कृते सत्यपि-आत्मेति । अर्धान्तरैकवाचकाख्यदोषस्वरूपोदय एवेति यावत् । नास्ति निराकाङ्क्षताख्यदुष्टिबीजाभावानैव भवतीत्यर्थः । तदिति । प्रतीयत एव तथेत्याग्रहश्चेदुक्तदोषखरूपसंभवेऽपि वेत्यर्थः । न दोषलं दोषत्वं नैवास्तीति संबन्ध इति । यथावा प्रसन्नराघवे-'किरीटमधिरूढेऽपि वाले प्रालेयरोचिषि । शितिकण्ठस्य किं धत्ते चित्ते कोपाङ्कुरः पदम्' इति । अत्र किरीटपदस्य साकाङ्कृत्वात्तत्प्रतियोगिशितिकण्ठपदस्य तथात्वेऽप्यार्थिकतन्निर्णयाभावाद्गुणत्वमिति दिक् । एवं गर्भितमपवदतिप्रतीतिरिति । बोध इत्यर्थः ॥ ३६ ॥ तदुदाहरति-भोभो इति । भोभो आचार्याः संभ्रमात्संबोधने वीप्सा। आदरातिशयाद्बहुवचनम् । अयि देशिकेत्यर्थः । यूयं शृणुध्वम् । किं तदित्यत्राह-पतितमित्यादिना । यूयं भवन्तः ।