SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । पतत्प्रकर्षमप्यत्र रसानुगुणतो गुणः । उद्रिक्तदान्दर्प कान्धिगहं तु चित् ॥ ३३ ॥ समाप्तपुनरात्तं स्याहुणो वाक्यान्तरोदये । रामापि स्यादुपादेया महागुणवती सती ॥ ३४ ॥ गुणरत्नम् ७ ] २९३ ॥ ३२ ॥ एवं तत्प्रकर्षमप्यपवदति - पतत्प्रकर्षमपीति । अत्र साहित्यशास्त्रे पतत्प्रकर्षमपि वाक्यदोषजातम् । रसानुगुणतः रसानुसारेणेत्यर्थः । गुणोऽस्तीति संबन्धः। ओजस्विनि रसे प्रक्रान्ते तदनुसारेणौजोगुणप्रकर्षः कृतोऽपि यदि निरुक्तरसाङ्गत्वेन कदाचित्तदम एव मधुरोऽपि रसो निबध्यते चेत्तदुपकारित्वेन माधुर्यगुणस्यैव तत्रावश्यादरणीयत्वात्प्राक्तनोऽसौ पतितोऽपि प्रोक्तरसानु - सारित्वेन गुण एवेति भावः । तमुदाहरति-उद्विक्तेति । उद्रिक्तः अत्यधिकः दर्पः। ‘दर्पो धनखजनादिनिमित्तो महदवधीरणाहेतुर्गर्वविशेष:' इति श्रीमन्मधुसूदनसरखत्युक्तरूपश्चित्तपरिणामो येषां ते तथा । कंदर्पो मदनस्तस्येदं कांदर्प मदनैकप्रधानमुपस्थेन्द्रियं तत्तर्पयन्ति सततसुरतैस्तृप्तिं प्रापयन्तीति तथा ते च ते इति पुनः कर्मधारयः । तथा च धनमदनादिमत्तानित्यर्थः । धिगस्तु क्षयि• ष्णु सुखाभाससक्तत्वादिति तत्त्वम् । अथ स्वस्मिंस्तु तद्व्यतिरेकं व्यनक्ति - अहं त्विति । तुशब्दो वैलक्षण्यार्थः । चित् अद्वैतसच्चिदानन्दः परमात्मैवास्तीति योजना । इहानुप्रासस्य त्यक्तत्वेन पतत्प्रकर्षत्वेपि धिगित्यन्ततदुत्तरवाक्ययोः क्रमात्त्यागवीरशान्तरसानुगुणत्वे नौ जो माधुर्यघटितत्वाद्गुणत्वमेवेति भावः । तदुक्त तत्प्रकृत्य प्रदीपे ' रसानुगुणतया तत्पातेपि न दोष:' इति । यथावा मुकुन्दानन्दभाणे - ' तर्फे कर्कशचक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मधुरोक्ति - सारसुरभौ स्यादेव मे कोमला । या प्रायः प्रियविप्रयुक्तवनिताहृत्कर्तने कर्तरी प्रेयोलालितयौवनेन मृदुला सा किं प्रसूनावलिः' इति ॥ ३३ ॥ एवं समाप्तपुनरात्तमप्यपवदति - समाप्तेति । वाक्यान्तरेति । अन्यवाक्यसंभवे सतीत्यर्थः । तदुदाहरति- रामापीति । रमयति यौवनमहिम्ना क्रीडापरवशं करोतीति तथा तरुणीत्यर्थः । अपिना तस्यां 'यस्य स्त्री तस्य भोगाः स्युर्निःastra भोगभूः । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्यक्त्वा सुखी भवेत्' इत्यभियुक्तोक्तेः संसारनिदानत्वं ध्वनितम् । उपादेया विधिवत्पाणौ ग्राह्या स्यादिति संबन्धः । इह वाक्यं तु समाप्तमेवातोऽग्रिमग्रन्थे समाप्तवाक्यार्थ एवान्वितत्वेनास्य तत्त्वेपि किमिति निरुक्तसंसृतिहेतुरपि युवतिरुपादेयेति हेत्वाकाङ्क्षायां यतोsaौ महागुणवत्त्वेन सती पतिव्रतास्तीति तत्समाधाय कवाक्यान्तरमुदेति तस्मागुण एव तदित्याकूतम् । यथावा मदीये नीतिशतपत्रे – 'श्रीगौर्यालिङ्गितं वन्दे सुप्रसन्नं सदाशिवम् । युक्तं गुहगणेशाभ्यां स्तुतं वेदैः सुरैरपि' इति । अत्र पूर्वार्ध एवान्वयसमाप्तादुत्तरार्धोक्त विशेषणद्वयस्य पुनस्तदन्वितत्वेनोपात्तत्वादुक्त दोषसंभवेऽपि केषां सदाशिववन्दनमात्रेण सर्वपुमर्थसिद्धिः संपन्ना किंवा तत्र मान
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy