________________
साहित्यसारम् ।
[ पूर्वार्धे गुणोऽधिकपदं चापि व्यङ्गये हर्षादिके सति। अहो चिदस्मि सर्वत्र देहपातेऽपि सर्वदा ॥ ३१ ॥ संप्रोक्तपदमप्यत्र गुणोऽनुप्रासनादिना। कमलाकमलाक्षाय हमेचकरुचिं ददौ ॥ ३२॥
न्यूनपदाख्यवाक्यदोषमपवदति-आक्षेपादिति । तमुदाहरति-क्षणिकादिति । अत्रान्यदिति पदस्य राहित्येन न्यूनपदत्वेऽपि तस्याक्षेपादेव लाभसंभवागुणत्वमिति तत्त्वम् । तदुक्तं काव्यप्रदीपे–'विवक्षिताप्रतिपत्तिश्च दूषकताबीजम् । अतो झटिति आक्षेपतस्तल्लाभेऽदोषलम्'इति । यथावा मदीये कृष्णलीलामृते'अथ नन्द उपेत्य गोकुलं परिजिघ्रञ्छिरसि स्वनन्दनम् । अभिचुम्ब्य ननन्द वै यथा परमानन्दविदोऽपि नो तथा' इति । अत्रान्ते नदन्तीति पदराहिल्यान्यूनपदत्वेपि झटित्याक्षेपादेव तल्लाभाद्गुणत्वमेवेति हृदयम् ॥ ३०॥ एवमधिकपदमप्यपवदति-गुण इति । हर्षेति । आदिना शोकः । तस्मिन्व्यङ्गये सति अधिकपदं चापि गुणो भवतीत्यन्वयः । तमुदाहरति-अहो इति । अत्र देहपाते. ऽपीत्यपिनैव त्रैकालिकसत्वध्वनने सर्वदेत्यधिकपदमपीदं वाक्यं ब्रह्मानन्दरूपस्य हर्षस्य व्यङ्गयत्वाद्गुण एवेति भावः। तदुक्तं काव्यप्रदीपे–'अतो हर्षादावभिव्यङ्गये न दोषत्वमिति । यथावा रघुवंशे-'तमङ्कमारोप्य शरीरयोगजैः सुखैनिषिञ्चन्तमिवामृतं त्वचि । उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ' इति । अत्र शरीरयोगजैरित्यस्य अङ्कत्वकस्पर्शपदैश्चारितार्थ्य नैतद्वाक्यस्याधिकपदत्वेऽपि हर्षव्यञ्जकत्वाद्गुणत्वं बोध्यम् ॥ ३१ ॥ इत्थं कथितपदमप्यपवदतिसंप्रोक्तेति । कथितपदाभिधं वाक्यदोषजातमित्यर्थः । अत्र साहित्यशास्त्रे । अन्विति । अनुप्रासनमनुप्रासः । आदिना यमकादि । तदुदाहरति-कमलेति । लक्ष्मीः कमलेति पुण्डरीकाक्षाय कमलायां अक्षिणी यस्येति वा । विष्णव इत्यर्थः। दृगिति। दृशः दृष्टेर्या मेचकरुचिनीलकान्तिस्तामित्यर्थः। 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः । यद्वा दृगेव मेचकं महानीलरत्नं । अथवा दृशः या मेचके स्वसमानजातीये नीलरूपे विषये रुचिरभिरतिस्तामिति यावत् । ददाविति संबन्धः । एवंच लक्ष्मीदृष्टिरुच्यैव स्वयंप्रकाशस्यापि भगवतः श्यामत्वं बभूवेति भावः । उक्तं हि प्रदीपे-'अतोलाटानुप्रासादावदोषत्वम्' इति । यथावा वेण्याम्-'जयति स भगवान्कृष्णः शेते यः शेषभोगशय्यायाम् । मध्येपयः पयोधेरपर इवाम्भोनिधिः कृष्णः' इति । अत्र कृष्णादिपदेन कथितपदत्वेऽपि प्रदीपीयादिपदोक्तयमकघटितकमलेत्यादिप्रकृतोदाहरणवच्छब्दचित्रत्वेन गुणत्वं बोध्यम्। एवं दृशः स्वाभाविकनीलत्वेन तद्वाचकमेचकपदेनार्थिकपौनरुक्त्येपि अनुप्रासात्तत्वमेव । एतेन चिदेवेत्यादीनि कृष्णलीलामृतपद्यान्यपि व्याख्यातानीति दिक्