________________
गुणरत्नम् ७ ]
सरसामोदव्याख्यासहितम् ।
२९ ॥
1
अन्यसंगतमप्यत्र गुणो वाचि प्रमादिनः । सखि पश्य गतः किं मे प्रोषितप्राणनायकः ॥ २७ ॥ निरर्थकं व्युदस्यैतेऽप्रयुक्ताद्यास्त्रयोदश । वाक्यदोषेष्वपि ज्ञेया अपवादा दिशानया ॥ २८ ॥ अवाचकं च नेयार्थ नित्यदोषद्वयं विना । पदैकदेशदोषेष्वप्येते प्रोह्याः सुबुद्धिभिः ॥ आक्षेपात्पदलाभश्णो न्यूनपदं भवेत् । क्षणिकाद्यौवनादेः किमिन्द्रजालमपेक्षितम् ॥ ३० ॥ स्पष्टमेव । उदाहरणं तु चरमचरणात्मकपदस्य परुषवर्णघटितत्वादत्रैव श्लेषेण बोध्यम् । तद्यथा पूर्वोक्ते पूर्वाचार्यैर्व्यासादिभिः कथित इत्यर्थः । एतादृशे । वीरेति । वीरादीनां संभावित पराक्रमदर्शितपराक्रमाणां वीरभटाख्यानां योधानां कं सुखं यस्मिन्निति तथा तत्रेत्यर्थः । ईदृशे स्थले कुरुक्षेत्राभिधभूभाग इतियावत् । प्रतापेति । प्रतापे पराक्रमे रुद्रः रुद्रस्वरूपो भीमसेनः तस्य यत्पारुष्यं परुषस्य कठोरस्य कर्म पारुष्यम् । दुःशासनरक्तपानादिव्यापारजातमित्यर्थः । अपिना दुर्योधनवधादिपराक्रमान्तरं गुणी भविष्यतीति किमु वक्तव्यमिति द्योत्यते । इदं सर्व श्रीमहाभारते प्रसिद्धमेव । श्रुतिकटिति । श्रवणकठोरवर्णवदित्यर्थः । गुणतां यातीति योजना । यथावाऽस्मदीये कृष्णलीलामृते – 'स संगरे सैनिकसङ्घसंकरात्समुत्थितं भूरि रजस्तमोऽपि च । सितासितः सत्त्वमवेक्ष्य वरिणामपाकरोत्तत्रयसाक्षितामपि' इति । अत्र तत्रयेत्यस्य तथात्वेऽपि वीररसप्रधानत्वाद्गुणत्वमिति तत्त्वम् ॥ २६ ॥ एवं जयदेवसंमतमन्यसंगतमप्यपवदति— अन्येति । तदुदाहरति- सखीति । इह प्रोषितपदस्य प्राणपदान्वयप्रत्ययात्तथात्वेऽपि वत्रया विरहिण्या: प्रमादित्वेन गुणत्वं ज्ञेयम् । यथावा नैषधीये— 'श्रवणपूरतमालदलाङ्कुरं शशिकुरङ्गमुखे सखि निक्षिप । किमपि तुन्दिलितः स्थगयत्यमुं सपदि तेन तदुच्छ्रुसिमि क्षणम्' इति । अत्राद्यपदे तथात्वेपि निरुक्तव
-
कत्वेन गुणतेति तात्पर्यम् ॥ २७ ॥ अथोतांस्त्रयोदशसंख्याकान्पददोषापवादान्निरर्थकं तं व्युदस्य वाक्येऽप्यतिदिशति – निरर्थकमिति । अप्रयुक्तेति च्छेदः । अप्रयुक्तापवादादयः पूर्वोक्तास्त्रयोदशाप्यपवादा इत्यर्थः । अनया निरुतरूपया दिशा मर्यादयेत्यर्थः । वाक्यदोषष्वपि ज्ञेया इत्यन्वयः । विदुषेति शेषः । तस्माद्वादशैव पददोषातिदैशिकवाक्यदोषापवादा इत्याशयः । तदुदाहरणान तु गौरवादनतिप्रयोजकत्वाच्चात्रानुक्तान्यपि यथायोगमूह्यानि प्रेक्षावद्भिरिति संक्षेपः ॥ २८ ॥ एवं पदैकदेशदोषेष्वपि अवाचकादिनित्यदोषद्वयं पर्युदस्य तानतिदिशति—अवाचकं चेति । एते पूर्वोक्तापवादाः । पदैकदेशेति । निहतार्थनिरर्थकत्रिवाश्लीलसंदिग्धाख्यत्वेनावशिष्टेषु पदैकदेशदोषेष्वपीत्यर्थः । शिष्ट तु स्फुटमेव ॥ २९ ॥ अथ नैसर्गिकवाक्यदोषापवादवदनमारभमाणः प्रथमं
२९१