SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २९० साहित्यसारम् । [पूर्वार्ध विरुद्धोऽर्थोऽप्यभीष्टश्चेद्विरुद्धमतिकृद्गुणः । भगिन्युद्वहनोत्साहाद्रुक्म्ययं योद्धमागतः ॥२५॥ प्रतापरुद्रपारुष्यमपि वीरादिके स्थले। पूर्वोक्ते गुणतां याति श्रुतिकदक्षरोपमम् ॥ २६ ॥ भासं संदष्टदशनच्छदम् । सरसं चुम्ब्यते हृष्टै द्धैरपि किमुज्ज्वलम्। सेयमपि सूचितस्यैव पक्काम्रफलमित्यस्य व्यर्थपदप्रयोगेणावगतेरर्थप्रहेलिकेति । रेवतीति । हे रेवति, इदं मध्विति शेषः । पिकेति । 'माकन्दः पिकवल्लभः' इत्यमरादाम्रकुसुमवन्मधुरगन्धमस्तीत्यर्थः । अत्र बलभद्रवचस्त्वादिना मत्तोकित्वानिरुक्तार्थलाभस्य क्लेशसाध्यत्वेन क्लिष्टत्वेऽपि गुणत्वं बोध्यम् । उदाहरणान्तरं तु माघद्वितीयस तदुक्तौ ज्ञेयं गौरवानेहोक्तमिति ॥ २४ ॥ एवं विरुद्धमतिकृदपवदति-विरुद्ध इति । तदुदाहरति-भगिनीति । इदं हि रुक्मिणीहरणलीलायां योद्धमुपागतं रुक्मिणमालोक्य तत्समक्षमेव तद्विनोदं कुर्वतः श्रीकृष्णस्य बलरामं प्रति वाक्यम् । तेनात्र खकर्तृकभगिनीकर्मकविधिवत्पाणिग्रहणानुकूलव्यापारौत्कण्ठ्यलक्षणस्य तस्यां खभगिनीत्वेन विरुद्धस्याप्यर्थस्य वक्तुरभीष्टवागुणत्वमित्याशयः । तदुक्तं प्रदीपे–'अतो यत्र विरुद्धार्थो विवक्षित एव तत्रादोषत्वम्' इति । यथावा सरखतीकण्ठाभरणे—'नादेयं किमिदं जलं घटगतं नाऽऽदेयमेवोच्यते सत्यं नाम पिबामि कत्यपतृषः पीतेन नाम्नाऽभवन् । किं वर्णा अपि सन्ति नाम्नि रहितं किं तैरलं त्वं कुतो यस्मादेव भवान्भगिन्यसि ततस्तेनैव मां बाधसे' इति । अस्यायमर्थः-गङ्गोदकं कलशे गृहीत्वा यान्तीमकान्ते मिलितां कांचित्स्वैरिणी तरुणी प्रति कश्चिच्चतुरो जारोऽभिवति–नादेयमिति । इदं प्रत्यक्षं घटगतं ताम्रादिकलशस्थं जलं नादेयं नदीसंबन्धि किमिति प्रश्नः । ततश्छलोक्त्या तस्याः प्रत्युत्तरं नादेयमेवेति । आदेयं आदातुं योग्यं नैवेत्युच्यते। भवतेति शेषः । इति तस्या आशयमजानान इव पुनरसौ सुरतप्रार्थनमेव सूचयंस्तत्पानं प्रतिजानीते-सत्यमिति । 'नाम प्राकाश्यसंभाव्यकुत्साभ्युपगमेपि च' इति विश्वात्सत्यनाम सत्यमेव नदीसंबन्धि चेत्तहं पिबामीत्यन्वयः । पुनरपि सा प्राग्वदेव प्रत्युत्तरयति-पीतेति । पीतेन प्राशितेन नाम्ना कति अपतृषः अभवन्निति संबन्धः । पुनः सोऽपि तथैव पृच्छति-किमिति । नाम्नि पीतसितादयो वर्णाः रूपविशेषा अपि सन्ति किमिति योजना । पुनः सापि तथैवाह-रहितमिति । तैः वर्णैरक्षरैस्तद्रहितं किमित्याक्षेपः । अथ स तावद्वाद शामयंस्तत्त्वं पृच्छति-त्वं कुत इति । यस्मादेव रतानिमित्ताद्भवान्प्रस्थितोऽस्ति तस्मादेवाहं प्रस्थितास्मीति पुनः साह-यस्मादेवेति । तदुभयोरेकजन्यत्व. कल्पनया पुनरप्यसावाह-भगिनीति । अत्र भगिनीत्वोक्तिर्विरुद्धमतिकृदपि च्छलोपयोगित्वेनेष्टेति गुण इति दिक् ॥ २५ ॥ अथ प्रतापरुद्रोक्तपरुषाख्यदोषविशेषमप्यपवदति-प्रतापेति। प्रतापरुद्रसंमतपरुषसंज्ञकपददोषत्वमित्यर्थः। शिष्टं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy