SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । प्रहेलिकादौ मत्तोक्त्यादौ च क्लिष्टं गुणो भवेत् । कामुक्यपाङ्गरङ्गं किं रेवतीदं पिकेष्टवत् ॥ २४ ॥ गुणरत्नम् ७ ] २८९ यकपात्रे च' इति हैमाच्च काव्ये श्रव्ये तावत्परनिन्दकः शिशुपालादिरेव विदूषकः । द्रष्टव्ये नाटकादौ तु विनोदपात्रीभूतः कश्चन विकृतवेषभाषश्चाटुवचनपटुर्बटुरेव स इति यावत् । आदिना प्रहसनादियोग्यः पाषण्डतापसादिः एतादृशः अधमः नीचः यदि वक्ता तदा ग्राम्यं देशभाषादिप्रसिद्धं पदादि गुणः स्यादित्यन्वयः । तादृशस्य वक्तस्तादृक्पदादेरेव योग्यत्वेन श्रोतृवैरस्यानाधायकत्वात् प्रत्युतौचित्यादिना रसपरिपोषकत्वाच्चेत्याशयः । तदुक्तं प्रदीप एवैतत्प्रकृत्य । वस्तुतस्तु नागरोपनागरौ विहाय ग्राम्यशब्दप्रयोगाद्वक्कुरवैदग्ध्योन्नयनेन श्रोतुर्वैमुख्यं तदित्यालोच्यते । अत एव विदूषकादावधमे वक्तरि न दोषत्वम् । तस्य तथैवौचित्येन वैरस्याभावादिति । तत् दूषकताबीजमित्यर्थः । तदुदाहरति — रे सूत्रेति । अत्राद्यपक्षे जगन्नाटकसूत्रधारे भगवति श्रीकृष्णे शिशुपालदृशा राजसूयमयसभा दिनाटकसूत्रधारत्वातत्संबुद्धिः । यद्यस्माद्धेतोः त्वं भूरि बहु शतापराधोत्तरं त्वामहं हनिष्याम्येवेत्यादिजल्पसि भाषसे । अतः त्वया किं पानं सुरापानं कृतमिति व्यक्तैव निन्दा | पक्षान्तरे तु स्फुटमेव । तत्रोभयत्रापि पानशब्दः पामरजनप्रसिद्ध एवेति ग्राम्योऽपि गुण एवेति भावः । यथावा कुमारसंभवे - 'निवर्तयास्मादस दीप्सितान्मनः क्व तद्विधस्त्वं क्वच पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया' इति श्रव्ये । विदूषकवचस्तु यथादुष्टयेऽभिज्ञानशाकुन्तलाख्यनाटकद्वितीयेऽङ्के तज्जल्पनं प्रकृत्य 'तदो गण्डस्सोवरि पिण्डआ संवृत्तेति' । अत्र च्छाया - ततो गण्डस्योपरि पिण्डिका संवृत्तेति । इह गण्डादिपदस्य ग्राम्यत्वेऽपि निरुक्तवक्तृमहिना गुणत्वं स्पष्टमेवेति दिक् ॥ २३ ॥ एवं क्लिष्टमप्यपवदति - प्रहेलिकादाविति । 'प्रहेलिका सकृत्प्रश्नः सापि षोढा च्युताक्षरा । दूत्ताक्षरोभयं मुष्टिर्बिन्दुमत्यर्थवत्यपि' इत्यादिना सरस्वतीकण्ठाभरणप्रपञ्चिता प्रहेलिका आदिमुख्या यस्यास्तादृश्यामुक्तावित्यर्थः । मत्तेति । मत्तः प्रमत्तस्तदुक्त्यादावित्यर्थः । चः समुच्चये । क्रमादुभयत्राप्यादिना कण्ठाभरणप्रसिद्धस्य षडिधगूढस्य संकेतसूचनवचनस्य च संग्रहः । क्लिष्टं प्रागुक्तलक्षणं पदादि गुणो भवेदिति संबन्धः । तदुक्तं प्रदीपे दूषकताबीजं प्रतीति विलम्बः । प्रहेलिकादौ तु तस्येत्वाददोषत्वम् । मत्तोक्त्यादौ तु गुणत्वमपि तदौचित्यादिति । क्रमेणोदाहरतिकामुकीति । 'वृषस्यन्ती तु कामुकी' इत्यमरान्मैथुनेच्छावती युवतिरिति यावत् । एतेन तदपाङ्गे वसुरताभिलाषसूचकत्वेनातिचपलत्वं व्यज्यते । तस्याः योऽपाङ्गः नेत्रान्तः तद्वत्क्षणमात्रं रञ्जयतीति तथा अतिक्षणिकरञ्जक मित्यर्थः । एतादृशं किं वस्त्विति प्रश्नः । इयं हि अर्थवत्याख्या षष्टी प्रहेलिका । समाधानं तु निरुकरीत्या क्षणिकरञ्जकमायुर्धनयौवनादीति । तेनात्रार्थप्रतीतौ क्लेशात्क्लिष्टत्वेऽपि प्रहेलिकागतत्वेन गुणत्वमेवेति भावः । यथावा कण्ठाभरण एव - 'सरसं काञ्चना २५ -
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy