SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८८ साहित्यसारम् । [पूर्वार्धे गुणत्वमप्रतीतेऽपि तत्तज्ज्ञो वोच्यते यदि । राम ते धर्ममेघोऽस्तु शेषः स्फोटरहस्यवित् ॥ २२ ॥ विदूषकादिको वक्ताधमो ग्राम्यं गुणस्तदा। रे सूत्रधार किं पानं कृतं जल्पसि भूरि यत् ॥ २३ ॥ एवमप्रतीतमप्यपवदति-गुणत्वमिति । यदि तत् अप्रतीत 'अप्रतीतं भवेच्छास्त्रमात्रसिद्धं गताशयम्' इति प्रागुक्तत्वाच्छास्त्रैकसिद्धं शब्दादीत्यर्थः । वेत्यथवा तज्ज्ञः । निरुक्तलक्षणाप्रतीताख्यशब्दादिज्ञ इत्यर्थः। उच्यते बोध्यते ज्ञाप्यते चेदप्रतीते एतन्नाम्नि दोषेऽपि गुणवं स्यादित्यन्वयः । तदुक्तं प्रदीपे तत्प्रकरणे । दूषकताबीजं तच्छास्त्रानभिज्ञस्यार्थानुपस्थितिः । अतएव यत्र तच्छास्त्राभिज्ञ एव प्रतिपाद्यः खयमेव वा परामर्शस्तत्र न दोषत्वं प्रत्युत व्युत्पत्तिसूच. कतया गुणत्वमिति । स्वयमेव वेत्यस्यायमर्थः। केवलमप्रतीतस्यैव वा परामर्श इति। तदुदाहरति-रामेति । इयं हि श्रीरामं प्रति ब्रह्मविद्योपदेशकालिकी श्रीवसिष्ठोक्तिः । हे राम, ते तुभ्यम् । धर्मेति । निर्विकल्पसमाधि प्रकृत्य 'धर्ममेघमिमं प्राहुर्मुनयः पारदर्शिनः । वर्षयेष यतो धर्मामृतधाराः सहस्रशः' इति श्रीमद्विद्यारण्यगुरुचरणवचनादसंप्रज्ञातसमाधिरित्यर्थः । अस्तु भवत्विति यावत् । इदं हि प्रथमोदाहरणम् । एवं द्वितीयस्यापि तदाह-शेष इत्यादिशेषेण । शेषः भगवान् पतञ्जलिः । स्फोटेति । स्फोटो हि वैयाकरणसंमतः शब्दापरनामा कश्चिन्नित्यः पदार्थः । उक्तंच वैयाकरणभूषणसारकारेण स्फोटवादे । यद्यपि वर्णस्फोटः पदस्फोटो वाक्यस्फोटोऽखण्डपदवाक्यस्फोटौ वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति । तस्य यद्रहस्यं तत्त्वं सर्वस्य वा चेतनावत्त्वात् । अथवा सर्व चेतनावदित्यादिमहाभाष्यात्सर्वद्वैतस्य चिदेकावच्छिन्नलात्तन्मात्रखरूपं सर्वबाधावधिभूतं वस्त्वित्यर्थः । तद्वत्तीति तथा भगवान्पतञ्जलिरेव सकलशब्दब्रह्मतत्त्वज्ञ इति यावत् । अतएव वार्यापञ्चाशीत्यां तदुक्तिः–'सर्वविकल्पविहीनः शुद्धो बुद्धोऽजरोऽमरः शान्तः । अमल: सकृद्विभातश्चेतन आत्मा खवद्यापी' इत्युपक्रम्य 'रज्ज्वां नास्ति भुजंगः सर्पभयं भवति हेतुना केन । तद्वद्वैतविकल्पभ्रान्तिरविद्या न सत्येयम्' इति। तस्मान राम, लया शब्दपाण्डित्यपरेण भाव्यं किंतूक्तसमाधिरेव विधेय इति पूर्वेण योजनयाशयः । अतएव तेन योगशास्त्रमपि प्रणीतमिति सुप्रसिद्धमेव । अत्रोभयत्रापि क्रमाद्धर्ममेघस्फोटपदार्थयोः शास्त्रमात्रसिद्धत्वेनाप्रतीतत्वेऽपि पूर्वत्र तस्यैवोत्तरत्र च तज्ज्ञस्य शेषस्य प्रतिपाद्यवाद्गुणवमिति दिक् । यथावा मदीये श्रीकृष्णलीलामृते'पृथुकमित्रमवेक्ष्य नु रागिणं विकसनं बिसिनी तनुते सुखे । तमवधार्य पुनः परपूरुषं कुमुदिनी शुचिरित्युदितोन्मनी' इति । इहोन्मन्यास्तथात्वेपि श्लेषादिना तज्ज्ञादिवोध्यत्वाद्गुणत्वम् ॥ २२ ॥ एवं ग्राम्यमपवदति-विदूषकादिक इति । 'विदूषकश्चाटुबटौ परनिन्दाकरेपि च' इति विश्वात् 'विदूषकोऽन्यनिन्दके। क्रीडनी
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy