SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । ब्रह्माण्डभगिनीशंभुलिङ्गादिकपदेषु तु । नासभ्यार्थोऽत्र सभ्यानां तथोपस्थितिरेव नो ॥ १८ ॥ गुणरत्नम् ७ ] २८५ > कामशास्त्रस्थितौ गुणत्वोदाहरणम् । यथावा नैषधीयचरितेऽष्टादशसर्गे – 'बह्वमानि विधिनापि तावकं नाभिमूरुयुगमन्तराङ्गकम् । स व्यधादधिकवर्णकैरिदं काञ्चनैर्यदिति तां पुराइस:' इति । अयमर्थः । इदं हि सुरतावसरे दमयन्तीं प्रति नलः प्राहेति कविवचः। अयि भैमि तावकं त्वत्संबन्धि नाभिं ऊरुयुगं च अन्तरा नाभ्यूरुयुग्मयोर्मध्य इत्यर्थः । अङ्गकं गुह्यदेशतया अवाच्यत्वमात्रादेव कुत्सितत्वार्थे कप्रत्ययः।जघनस्थलमितियावत् । विधिनापि ब्रह्मणापि बहु भूरितरं अमानि अपूजीत्यन्वयः । तत्र हेतुः । यद्यस्माद्धेतोः सः विधिः इदं प्रत्यक्षं निरुक्तभव - दङ्गम् । अधिकेति अतुलदीप्तपीतवर्णैरित्यर्थः । एतादृशैः काञ्चनैः कनकैः व्यथान्निर्मितवानिति संबन्धः । इति उक्तप्रकारेण पुरा आभ्यन्तरसंभोगारम्भात्पूर्वं सः नलः तां दमयन्तीं आहेति योजना । अत्र शब्दस्यातथात्वेऽप्यर्थस्य व्रीडाकारित्वेन अश्लीलत्वेऽपि ‘अनुरागपेशलं ब्रूयादुभयार्थमीदृशं वाक्यम् । शमय सुमुखि मम पीडां कलय निमित्तं त्वमेतस्याः' इति रतिरहस्यवचनात्कामशास्त्रस्थितित्वेन गुणत्वमेवेति दिक् । अथ जुगुप्सोदाहरणमाह - मूत्रेति । इदं हि मुमुक्षुकामवासनोपशमनार्थं सद्गुरुवाक्यम् । हन्त इति खेदे । कामुकाः सर्वेऽपि मूत्रालये मूत्रपात्रे भागे रताः संसक्ताः सर्वदा परमनिन्द्ययोनिस्थाने रमन्त इत्यर्थः । तस्माद्धिकामुकत्वमित्याशयः । इह हन्तपदान्नाशमित्यादिवाक्यशेषाच शान्त्युपोद्वातत्वेन गुणत्वं स्फुटमेव । यथावा काव्यप्रदीपे - 'उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे । क्लेदिनि स्त्रीत्रणे सक्तिरकामे कस्य जायते' इति । 'मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितं स्तनौ मांसग्रन्थी कनककलशाभ्यामुपमितौ । स्रवन्मूत्रक्लिन्नं करिवरकटस्पर्धिजघनं स्त्रियो निन्द्यं रूपं कविवरवचोभिर्बहु कृतम्' इति भर्तृहरिरपि । एवममङ्गलमपि तदुदाहरति— नाशमिति । तेऽपि प्रागुक्तकामुका अपि नाशं मृत्युं न एष्यन्ति किम् । अपितु एष्यन्त्येवेत्यन्वयः । अत्र नाशपदस्य निरुक्तरीत्या भाव्यमङ्गलसूचकत्वाद्गुणत्वम् । यथावा काव्यप्रकाशे - 'निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः' इति । इह प्रशमादिपदानां तथात्वेऽपि भाव्यमङ्गलसूचकत्वाद्गुणत्वं बोध्यम् ॥ १७ ॥ नन्वेवं यद्यपि कामशास्त्रस्थित्यादिना व्रीडाद्यश्लीलत्रयस्य गुणत्वं युक्तमेव तथापि भगवदादिशब्देषु का गतिरिति चेन्न । तत्र प्राचीनचिरंतनमहाजनव्यवहारवशात्सहृदय धुरीणान्तानां सर्वेषां जनानां व्रीडाद्यात्मकाश्लीलार्थौपस्थितेरेवाभावात् शब्दवृत्ते स्तूपस्थितिमात्रतन्त्रत्वव्यवस्थापनाचेत्याह - ब्रह्माण्डेति । तुशब्दः प्रोक्तशङ्कोपशमार्थः । ब्रह्माण्डेति च भगिनीति च शंभुलिङ्गेति चेति तथा । आदिना भगवत्यादिपदानां संग्रहः । तानि च तानि पदानि चेति पुनः समासः । असभ्येति अरम्यार्थो नैव भवतीवि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy