SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २८६ साहित्यसारम् । - [पूर्वार्धे गुणः संदिग्धमप्यस्ति संदेहोद्देश्यता यदि । वाच्यप्रकरणादिभ्यां निर्णयोऽवगतोऽथवा ॥ १९॥ सुदृशः कति वा सन्ति कान्तसिद्धान्तसद्गुणाः । अलंकारालये देहे व्यामोहेन ममाधुना ॥ २०॥ संबन्धः।ननु कुत एवं नियम्यत इत्यत आह–अत्रेति। यतः हेतोः अत्र ब्रह्माण्डादिशब्देषु सभ्यानां पण्डितानाम्।उपलक्षणमिदमन्येषामपि । तथा अश्लीलार्थकत्वेन उपस्थितिरेव शाब्दप्रमितिरेव नो नैव भवति तस्मादिति पूर्वत्र योज्यम् । तदुक्तं प्रदीपे 'शिवलिङ्गभगिनीब्रह्माण्डादिशब्देषु असभ्यार्थानुपस्थितेः' इति ॥ १८ ॥ एवं संदिग्धमप्यपवदति-गुण इति । यदि संदेहोद्देश्यता संदेहस्यैव यदि प्रतिपाद्यसमित्यर्थः । अथवा वाच्येति वाच्यः कथनीयोंऽशः प्रकरणादिप्रसिद्धमेव ताभ्यामिति यावत् । अत्रादिना लिङ्गसंग्रहः । निर्णयः निश्चयः अवगतः ज्ञातश्चेत्संदिग्धमपि पदगुणोऽस्तीत्यन्वयः । तदुक्तं काव्यप्रदीपकृता संदिग्धं प्रकृत्य । अतो यत्र संदेह एवोद्देश्यस्तत्र,यत्र च वाच्यादिमहिम्ना प्रकरणादिवशेन वा निश्चयस्तत्र चादोषत्वमिति ॥ १९॥ तत्र संदेहोद्देश्यस्थलमुदाहरति-सुदृश इत्यर्धेन। इदं हि प्रवसत्पतिकायास्तं प्रति वाक्यम् । अयि कान्त, नतु भर्तः । एवं च सर्वगुण. संपन्नत्वेनापि तत्र खप्रीतिविषयताकत्वं द्योत्यते-सिद्धान्तेति । सिद्धान्तीभूताः शास्त्रादिना विचार्य विनिर्णीताः नत्वापाततः प्रतीयमानकापटिकनम्रत्वादिनाध्यवसिताः एतादृशाः सद्गुणाः सत्याः पतिव्रतायाः ये गुणाः पतिमात्रपरायणत्वादयो धर्माः ते च ते यासां तास्तथेत्यर्थः । एतेन परकीयात्वं व्युदस्तम् । एतादृश्यः साध्व्यः सुदृशः मृगाक्ष्यः कति वा सन्ति । किंतु स्वल्पा एव वर्तन्त इतियावत् । यथाचाहं तु सैवास्मीति श्रीमद्विरहेण कथं प्राणान्धारयिष्यामीयाकूतम् । तेन च भवद्भिनैव प्रवसितव्यमिति व्यज्यते । यद्वा वासन्तिकेत्यायेकं पदम् । एवंच भो प्राणनाथ, वासन्तिकेति वसन्ते भवः वासन्तिकः एतादृशो योऽन्तः पत्युः प्रवासगमनात्तत्सङ्गनाशः तेन सिद्धः संपन्नः अन्तः मृत्युर्यासां एतादृशः अतएव सद्गुणा इत्यर्थः । ईदृशः सुदृशः कति । विरला एव नतु बह्वय इति भावः । एवंच वसन्तकालेऽप्यद्य श्रीमद्भिः प्रवत्स्यते चेन्मन्मरणमेव भावि । नचान्यां मृगेक्षणामुहिष्यामि का मे तावता क्षतिरिति वाच्यम् । सत्यास्तस्याः परमदौर्लभ्यात् । तस्माद्धस्तताम्बूलत्यागन्यायापातादिदानीं भवद्भि व प्रवसित. व्यमिति तत्त्वम् । अत्र किं प्रथमोऽर्थः श्रेयानुतान्त्य इति संदेहः। नच वाच्यं चरमे सारल्यत्यागाक्लिष्टकल्पनापातायतिभङ्गाख्यछन्दोदोषाच कासाविति विरहानुसंधानवैकल्येन तेषां विप्रलम्भपोषकत्वेनाभिलषितत्वाद्वसन्तकालगमनविनिवारणलाभाच्च । नापि तथात्वेऽस्यैवादरणीयतरत्वेनाद्यस्य त्याज्यत्वात्पुनरपि तादवस्थ्यमेवेति शङ्कयम् । तत्रापि सिद्धान्तपदध्वनितवास्तविकसतीत्वलाभात्सार्वकालिकमपि प्रवसननिषेधनध्वननाच । तस्मादुभयत्रापि तुल्यबलत्वेन युक्त एव
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy