SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८४ [ पूर्वार्ध साहित्यसारम् । निरर्थकमपि श्लेषे चन्द्रालोकमते गुणः। पुष्करे भाति राधेऽद्य प्राज्यं तुहिनदीधितिः॥१५॥ व्रीडादित्रिविधाश्लीलं कामशास्त्रस्थितौ कमात् । गुणः स्याच्छान्त्युपोद्धाते भव्यमङ्गलसूचने ॥ १६ ॥ त्वं मृग्यहं शशो योनौ साधने च रसाङ्गलैः। मूत्रालये रता हन्त नाशं नैष्यन्ति तेऽपि किम् ॥ १७ ॥ दति-निरर्थकमपीति । तमुदाहरति-पुष्कर इति । इदं हि मानवतीं राधां प्रति सखीवाक्यम् । हे राधे, अद्य पुष्करे 'बिसप्रसूनराजीवपुष्कराम्भो. रुहाणि च' इत्यमरात्कमल इत्यर्थः । पक्षे 'व्योम पुष्करम्' इतिच तद्वचनादाकाश इति यावत् । दीधितिः कान्तिः विकासशोभेति विवक्षितम् । प्राज्यं बहु न भाति सूर्यास्तसमयत्वेन तस्य मुकुलायमानत्वान्नातुलं विलसतीति संबन्धः । अत्र तुहीति निपातद्वयं पादपूरणमात्रप्रयोजनत्वेन निरर्थकमपि तुहिनदीधिति. रित्येकपदेन सूर्यास्तसूचनवच्चन्द्रोदयसूचनस्यापि श्लेषेण लाभाद्गुण एवेत भावः । तदुक्तं चन्द्रालोके–'दधार हृदये गौरी देवं हिमकराङ्कितम् । अत्र श्लेषोदयानैव त्याज्यं हीति निरर्थकम्' इति । सरखतीकण्ठाभरणे त्वेतद्भङ्गयन्तरेणौवोक्तम् -'यत्पादपूरणाद्यर्थमनर्थकमिति स्मृतम् । गुणत्वमनुमन्यन्ते तस्यापि यमकादिषु'। यथा-'योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम्' । 'बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न' । अत्र खलुशब्दस्य चशब्दस्य पादपूरणमात्रेऽपि प्रयोजने यमकत्वाद्गुणत्वमिति ॥ १५ ॥ एवमश्लीलत्रयमप्यपवदति-व्रीडादीति । आदिपदेन जुगुप्सादिः । क्रमात्कामशास्त्रस्थिती तथा शान्त्युपोद्धाते भाव्यमङ्गलसूचने च गुणः स्यादित्यन्वयः । उकंहि प्रदीपकृतात्र दूषकताबीजं प्रकृत्य । अथवा तादृशार्थोपस्थित्या श्रोतुर्वैमुख्यं तद्बीजम् । अतः शमकथायां दोषत्वाभावः । तादृशोपस्थितेः शमपोषकत्वात् । भाव्यमङ्गलसूचने कामशास्त्रस्थितौ च न दोषत्वं वैमुख्याभावादिति ॥ १६ ॥ त्रिविधमपि क्रमेण तमुदाहरति-त्वमिति । हे खहरिणनयने, त्वं योनौ रसाङ्गुलैः षडङ्गुलैः । रसपदं हि मधुरादीनां लेह्यादीनां वा रसनां षट्रसंख्याकत्वेन तन्मात्रलक्षकं तेन गुह्ये षडङ्गुलमात्रपरिमाणत्वादित्यर्थः । मृगीएतत्संज्ञकस्त्रीजातिविशेषावच्छिन्ना भवसीति योजना, चेति तथा अहमपि साधने मेढ़े रसाङ्गुलैः शशः एतन्नामकपुंजातिविशेषावच्छिन्नोऽस्मीति प्राग्वदेवाध्याहृत्य संबन्धः । तस्मादैववशादावयोः समतया परमोत्तमं सुरतं संपद्यत इति रहस्यम् । तदुक्तमनगरङ्गे-'आरोहैर्मदनाङ्कुशस्य पुरुषा ज्ञेयाः सदाथ स्त्रियोऽयोनीनां परिणाहकै रसनवादित्याङ्गुलीकैः क्रमात् । जात्या ते तु नराः शशाश्च वृषभा अश्वास्तथैवाङ्गना मृग्योऽश्व्यो द्विरदाङ्गनाश्च कथिताः प्राक्सूरिभिः सर्वतः'। हरिणीशशयोवृषाश्वयोः समयोगः करिणीतुरंगयोः । भवतीह परस्परं द्वयोर्नितरां प्रीतिरनङ्गसङ्गरे' इति । इदं हि व्रीडाख्याश्लीलस्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy