________________
सरसामोद व्याख्यासहितम् ।
निहतार्थमपि ज्ञानां श्लेषादिषु गुणो मतः । गोपतिगोपतिर्मेऽस्ति गोपतिर्गोपतिः क्व तत् ॥ १४ ॥
गुणरत्नम् ७ ]
२८३
काव्ये - यमकादीति । आदिनानुप्रासादिः । अनुकारः परोक्तानुवादः । क्रमेण तमुदाहरति — दैवत इति । अग्निः यज्ञनारायण: । 'एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः' इत्यादिश्रुतेः । मे मम दैवतः । ' दैवतानि पुंसि वा ' इत्यमराद्देवतेत्यर्थः । दैवतः दैवं दिष्टमित्यपि तदुक्तेः पूर्वपुण्यपरिपाका दितियावत् । अस्तीत्यध्याहृत्यान्वयः । पद्म इति । इदं हि प्रातःकाले सखीवचनश्रवणोत्तरं कु कुसुमशय्यायां राधामालिङ्गय सुखेन शयानं किमसैौ वक्तीति पृच्छन्तं भगवतं प्रति तद्वचः । तथाच 'वा पुंसि पद्म' इत्यमरात्सख्या तु रभसादेव द्रुतव्युत्थापनार्थ पुंलिङ्गप्रयोगः कृतो राधिकया त्वनुकारादेवेति बोध्यम् । एवंच रभसादिरपि तन्निमित्तमिति ध्वनितम् । इतीति । उक्तप्रकारेण ईरितं कथितम् । तत्सख्येति शेषः । तथाचोक्तं प्रदीपे - ' वस्तुतस्तु तादृशकविसमयविलङ्घनप्रयोजनानुसंधानव्यग्रतया मुख्यार्थविच्छित्तिर्दूषकताबीजम् । अतएवानुकरणे दोषत्वाभावः । यमकादावप्यदोषत्वम् । अन्यत्राप्रयुज्यमानस्यापि तदर्थ कविभिः प्रयोगस्य दर्शनेन व्यग्रताभावादितीति । यथावा भामिनीविलासे – 'वदनारविन्दसौरभ लोभादिन्दिन्दिरेषु निपतत्सु । मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषा परुषाः' इति । अत्रेन्दिन्दिरपदं भ्रमरवाचित्वेन कोशादौ प्रसिद्धमपि सर्वत्राप्रसिद्धेरप्रयुक्तमप्यनुप्रासाद्गुणावहमेव ज्ञेयम् । 'भ्रमरश्चञ्चरीकः स्याद्रोलम्बो मधुसूदनः । इन्दिन्दिरः पुष्पकीटो मधुद्रो मधुकेशट:' इति त्रिकाण्डशेषः । उपलक्षणमिदं श्लेषादेरपीति दिक् ॥ १३ ॥ तथा निहतार्थमप्यपवदति - निहतार्थमपीति । ज्ञानां विबुधानाम् । श्लेषेति । आदिना यमकादिः । तमुदाहरति - गोपतिरिति । मे मम गोपतिः पृथ्वीपतिः गोपतिः पशुपतिः श्रीशंकर एवास्ति तत्तस्मात्कारणाद्गोपतिः वज्रपतिः तथा गोपतिः स्वर्गपतिरपि इन्द्रः क्व । नैव गण्य इत्यन्वयः । पक्षे गोपतिः किरणपतिः सूर्य एव मे गोपतिश्चक्षुरुपलक्षितसकलेन्द्रियनियन्ता 'सूर्य आत्मा जगतस्तस्थुषश्च' इति श्रुतेरस्ति तत्तदा गोपतिः वाक्पतिः तथा गोपतिः सामान्यतः कश्चिद्दिक्पालोऽपि क्वेति योजना । इदमप्युक्तं प्रदीप एव निहतार्थ प्रकृत्य । दूषकताबीजं प्रसिद्धस्यैव द्रागुपस्थित्या विवक्षितस्य विलम्बोपस्थितिः । अतो यमकादावदोषत्वम् । तत्रोपस्थितिविलम्बस्यापि सहृदयसंमतत्वेनाविलम्बानुद्देश्यत्वादिति ।' गौ: स्वर्ग पशुवाग्वज्रदिडे त्रघृणिभूजले' इत्यमरः । अत्र क्रमेण त्यागवीरपाण्डित्यवीररसाविष्टौ वक्ताराविति ध्येयम् । यथावा मदीयाद्वैतामृतमञ्जर्याम् —'सालंकृतिरपि मधुरध्वनियुक्तापि प्रगल्भवृत्तापि । जनयति किं मुमुक्षोर्भियमिह गौर्विशदशृङ्गारे' इति ॥ १४ ॥ अथ निरर्थकं मतान्तरेणापव