________________
२८०
साहित्यसारम् ।
[ पूर्वार्धे
गुणा यद्यपि धर्माद्याः षडप्येतेष्वथाप्युभौ ।
मुख्यावुक्तौ च वक्ष्यामः प्रोच्यन्तेऽत्रैव येऽपरे ॥ ८॥ रूपगुणौपयिकत्वेनात्याज्यत्वं तद्वन्मलिनत्वादिना दुष्टस्यापि कजलस्य नयने का. हाधिक्यलक्षणगुणोपयोगित्वादहेयत्वमेवेति । 'सुरभिः शल्लकी मातृभित्सरोगोषु योषिति । चम्पके च वसन्ते च तथा जातीफले पुमान् । स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु' इति मेदिन्याः प्रकृते कान्तपदवाच्यरम्यत्वाधायकं सुरभीति क्लीबमतमुक्तपूर्वार्धगतसुरभिपदवारस्यादेव बोध्यम् । अपिः समुच्चये। एवं चेदं क्रमेण पूर्वोक्तगुणत्वकरणादिलक्षणापवादिकगुणत्रयोदाहरणं ज्ञेयमित्याशयः । तथाचोक्तं सोदाहरणं चन्द्रालोके-'दोषमापतितं वान्ते प्रसरन्तं विशृङ्खलम् । निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम् । दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति । भवन्तमथवा दोषं नयत्यत्याज्यतामसौ । मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः । अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् । तव दुग्धाब्धिसंभूतेः कथं जाता कलङ्किता। कवीनां समयाद्विद्याविरुद्धो दोषतां गतः। (चन्द्रस्य दुग्धसमुद्रसंभवस्य कविसमयेन दोषाभावत्वमात्रं न गुणत्वं रसादिपरिपोषकत्वाभावादित्येतट्टीका राकागमाख्या)। (अत्र कथं जाता कलङ्कितेत्याक्षेपस्य कलङ्किताहेतोः स्मृत्यादिप्रसिद्धवेन विद्याविरुद्धत्वेऽपि कविसमये चन्द्रे दुग्धाब्धिसंभवस्य दोषाभावत्वमात्रस्येष्टत्वेन कलङ्किताख्यस्य दोषस्य यावदोषाभावशालिन्यनौचित्यादुक्तविद्याविरुद्धोऽप्ययमदोष एवेति )। 'दधार गौरी हृदये देवं हिमकराङ्कितम् । अत्र श्लेषोदयान्नैव त्याज्यं हीति निरर्थकम्' इति । काव्यप्रकाशेऽपि 'वक्राद्यौचित्यवशादोषोऽपि गुणः क्वचिन्नोभौ'इति । नचैवं त्वयाप्यत्र काव्योदाहरणत्रयमेव वक्तव्यं तद्विहाय पूतीत्यादिलौकिकमेव तत्किमित्युक्तमिति वक्तव्यम् । तस्याग्रे तत्तदपवादस्थले भूरितरं वक्ष्यमाणवात्प्रकृते तु लौकिकोदाहरणस्यैव व्याप्तिघटकत्वेनोपयुक्तलाच । ननु मम्मटभट्टैः कोटिद्वयमेवापवादस्योक्तं भवता तु जयदेवानुसारतस्त्रयमपि तत्कोटीनामुपन्यस्तमिति कथं न तेन सह विरोधो गौरवं चेति चेत्तत्कारिकायामादिपदध्वनिततृतीयकोटेरपि सत्त्वात्फलमुखगौरवस्यादूषकलाच न किंचिदेतदिति संक्षेपः ॥७॥ ननु प्रथमरत्ने त्वया तत्र निर्दोषेत्यादिना काव्यसामा. न्यलक्षणमभिधाय स्वविवक्षितगुणनिरूपणं 'धौं रसाः' इत्यादिना यत्कृतं तत्र रसाख्यगुणस्तु चतुर्थरत्ने वर्णित एव। तेन तत्रैव ते धर्माख्यया संमता माधुर्यादयोऽन्ये च किमिति नोपपादिता इत्याशङ्कय समाधत्ते-गुणा यद्यपीति । यद्यपि निरुक्तवचनाद्धर्माद्याः षडपि मम गुणत्वेनैव संमता इति रसाख्यतन्निरूपणप्रकरणे ते सर्वेऽपि निरूपणीया इति युक्तमेव तथापि एतेषु धर्मादिगुणेषु मध्ये उभौ रसालंकारौ रसालंकारमुख्यत्वभेदेनेति प्रथमरत्नोक्ते मुख्यौ प्रधानीभूताविति हेतोः प्रागुक्तौ रसस्य तत्रापि मुख्यतरत्वेन चतुर्थरत्ने किंचित्प्रपञ्चनादलंकारस्य त्वतथात्वेन प्रथमरत्न एव मध्यमादिकाव्योदाहरणमिषेण सूत्रितत्वात्संक्षेपेण कथितौ