SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ गुणरत्नम् ७] सरसामोद व्याख्यासहितम् । स्वाध्याये विहिते नित्येऽशुचित्वादिनिषेधवत् । यावर्द्धिसानिषेधेऽपि यज्ञे हिंसाविधानवत् ॥ ५ ॥ गुणत्वकरणाद्दोषे दोषत्वस्य निवारणात् । गुणाद्यौपयिकत्वेनात्याज्यत्वाच्च पुनस्त्रिधा ॥ ६॥ पूतिगन्धिस्तु हिङ्ग्वादिर्दध्यादौ सुरभिर्यथा । नीलं चेलं सुगौराङ्गयां ताम्बूलादौ सुधाद्यपि ॥ ७ ॥ कारेण द्विविधो द्विकोटिक उच्यत इत्यन्वयः । तस्मात्सामान्यतो विहितनिषिद्धयोः क्रमाद्विशेषतो निषेधविध्यन्यतरत्वमपवादसामान्यलक्षणं फलितम् ॥ ४ ॥ उभयविधमपि तं क्रमेणोदाहरति - स्वाध्याय इति । 'स्वाध्यायोऽध्येतव्यः' इति श्रुत्या नित्ये 'नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत्' इत्युक्त्याऽतिक्रमे दोषश्रुतेरत्यागचोदनात् 'फलाश्रुतेर्वीप्सया च तन्नित्यमिति कीर्तितम्' इत्यभियुक्तो के र्नि त्यविधिविषय इत्यर्थः । एतादृशे - स्वेति । खशाखाध्ययन इति यावत् । विहिते चोदिते सतीत्यर्थः । अशुचित्वेति च्छेदः । ' तस्य द्वावनध्यायौ यदात्माऽशुचिर्य - देश:' इति श्रुतेरपवित्रत्वाद्यवच्छेदेन यो निषेधस्तद्वदित्यर्थः । आद्योपवाद इति शेषः । यावदिति । 'न हिंस्यात्सर्वाभूतानि' इति श्रुतेः कायिका दियावत्प्राणिपीडानिषेधे सत्यपि 'अन्यत्र तीर्थेभ्यः' इति तद्वाक्यशेषात् 'अग्नीषोमीयं पशुमाल - भेत' इत्यादिश्रुतेश्च यत् यज्ञे हिंसाविधानं तद्वदित्यर्थः । द्वितीयोऽपीत्यादिप्राग्वत् ॥ ५ ॥ एवं निरुक्तापवादद्वयजन्यत्वेन द्विविधस्याप्यस्य पुनस्त्रैविध्यं विधत्ते - गुणत्वेति । दोष इत्युभयत्राप्यन्वेति - गुणादीति । उपाय एवेति स्वार्थिकतद्धिते औपयिक इत्येव । दीर्घपाठे तु उपायः प्रयोजनं अस्येति ‘प्रयोजनम्' इति ठञ् । एवंच गुणालंकारसाधनफलकत्वेनोपादेयत्वाच्चेत्यर्थः । शिष्टं तु स्पष्टमेव ॥ ६॥ त्रिविधमपि प्रागुक्तद्विविधापवादजन्यं गौणदोषाभावलक्षणं गुणमुदाहरति - पूती - ति । पूतिर्दुष्टः गन्धो यस्य स तथा । 'गन्धस्येत्' इति समासान्त इकारः । ' पूतिगन्धिस्तु दुर्गन्धः' इत्यमरः । तुशब्दोऽप्यर्थकः । एतादृशोऽपि हिड्वादिर्यथा दध्यादौ सुरभिः सुगन्धिर्भवति तथेह काव्यादौ दोषोऽपि किंचिदवच्छेदेन गुणत्वकरणादापवादिको गौणदोषाभावात्मको गुण एव ज्ञेय इत्यार्थिकोऽन्वयः । आदिपदाभ्यां क्रमाद्रामठसमकक्षजीरकवृन्ताकयोर्ग्रहः । नीलमिति । सुगौराङ्गयां सुष्ठु अवयवसौन्दर्यशालि शोभनं सौभाग्यादिशालि वा गौरं पीतवर्ण अङ्गं शरीरं यस्याः सा तथा तस्यां इत्यर्थः । नीलं कृष्णवर्णे चेलं वसनं, तद्धितस्यां न किंचिगुणाधिक्यं विधत्ते किंतु तदवच्छेदेन केवलं स्वकार्ण्यदोषमेव यथापसारयति तथेह किंचिदवच्छेदेन दोषत्वमात्रनिराकरणादापवादिक इत्यादि प्राग्वदेव । एवं गुणाद्योपायिकत्वेनात्याज्यस्योदाहरणे ताम्बूलेत्यादावप्रेऽपि बोध्यम् । तत्राप्यादिशब्दाभ्यां यथासंख्यं नयनाञ्जने बोध्ये । तद्यथा ताम्बूले तावत्सुधाशब्दितस्य चूर्णस्य जिह्वास्फोटजनकत्वादिना दुष्टस्यापि खदिरादिसंयोगेनाधरादौ रागाधिक्य २७९
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy