________________
२७८
साहित्यसारम् । - [पूर्वार्धे गुणो हि द्विविधो दोषाभावात्मा प्रथमो मतः। माधुर्यादिर्द्वितीयश्च क्षीरे शुद्धिसितादिवत् ॥ २॥ आद्यः पुनर्द्विधा शेयो मुख्यगौणत्वभेदतः । मुख्यः प्रसिद्ध एवास्ति गौणः स्यादपवादतः॥३॥ स तु किंचिदवच्छेदाद्विहितस्य निषेधनम् ।
विधिर्वा प्राङ्निषिद्धस्येत्येवं द्विविध उच्यते ॥ ४॥ एवं प्रतिज्ञाते गुणप्रस्तावने स कतिविध इत्याकालायां भावाभावात्मभेदेन सामान्यतस्तद्वैविध्यं विधातुं तमुद्दिशति-गुणो हीति । हिरवधारणे। द्विविध एवे. त्यर्थः । कथं तद्वैविध्यमित्याशङ्कायां तत्प्रकारद्वयं विवक्षुः पूर्वोक्तदोषाणामासन्नत्वात्प्रथमं तेषामभावमेवाद्यगुणत्वेन विधत्ते-दोषेति । निरुक्तशब्दादिदोषाभावस्वरूप इत्यर्थः । ननु यदि दोषाभावोऽपि गुण एव तर्हि कथं प्रथमरत्ने तत्र निर्दोषेत्यादिकाव्यलक्षणे निर्दोषेति दोषाभावस्य गुणपार्थक्यघटकं शब्दार्थविशेषणमिति चेत्सत्यम् । तत्र गुणपदस्य रसादिसाधारणकाव्यनिष्ठभावरूपधर्मषट्कवाचकत्वात् अभावरूपतगृहाथै तदपेक्षणाच्च । अस्त्वेवमयमभावरूपस्तथापि भावरूपः क इत्यत्राह-माधुर्यादिरिति । 'माधुयौंजःप्रसादाख्यास्त्रयस्तेन पुनर्दश' इति काव्यप्रकाशसूत्रोक्तो वक्ष्यमाणलक्षणो माधुर्यादिर्भावरूपो द्वितीयो गुण इत्यर्थः । ननु भावरूपस्य तत्त्वसंभवेऽप्यभावे तददृष्टचरमित्येतन्निदर्शनव्याजेन समाधत्ते-क्षीर इति । यथा गवादेः क्षीरस्य वस्त्रादिना तल्लोमादिनिराकरणल. क्षणा तदितरवस्त्वभावरूपा शुद्धिः प्रथमो गुणस्तावत्सुप्रसिद्ध एव तत्प्रकृतोऽपि ज्ञेय इत्यर्थः । एवं तत्र यथा तदुत्तरं सिताशब्दितशर्करादिसंमेलनलक्षणो भावरूपो द्वितीयो गुणस्तद्वदयमपीति यावत् । आदिना गुडः । माधुर्यप्रसादादीनां धर्माणां शर्करायामपि सत्त्वात् । श्लेषेण साधर्म्यं ध्वन्यते । तस्मादभावरूपोऽपि गुणः सुप्रसिद्ध एवेति भावः । एतेनोक्तलक्षणस्याभावरूपगुणस्य तत्प्रतियोगिदोषसापेक्षत्वाप्राक्तनस्य दोषरत्नस्याव्यवहितोत्तरत्वमस्य गुणरत्नस्योचितमेवेति सूचितम् । तेनानयोरुपजीव्योपजीवकभावसंगतिरपि सिद्धेति ॥ २ ॥ ननु भवत्वेवं गुणस्य सामान्यतोऽभावत्वादिभिदा द्वैविध्यं तथाप्यभावात्मा स किमेकविध एवाथवानेकविध इत्याशङ्कयान्त्यमङ्गीकरोति-आद्य इति । तत्र हेतुमाह-मुख्येति । तत्र मुख्यत्वं तावन्निरुक्तदोषत्वावच्छिन्नप्रतियोगिताकत्वं, तथा गौणत्वमपि किंचिदव. च्छेदेन तत्सत्त्वेपि तत्समानधर्मकत्वमिति बोध्यम् । अत्र तच्छब्दाभ्यां क्रमाद्दोषतदभावौ ज्ञेयौ । एवंच दोषसत्त्वेऽपि तत्कार्याकारित्वमिति फलितम् । अथ को ता. वित्याकाङ्क्षायां तयोः क्रमात्प्रसिद्धिकारणाभ्यां खरूपे विशदयति-मुख्य इति । उत्सृष्टस्य किंचिदवच्छेदेन निषेधो ह्यपवाद इत्यनुपदमेव वक्ष्यते ॥ ३ ॥ तमेव लक्षयति–स त्विति । कोऽसावपवादपदार्थ इति शङ्काशान्त्यर्थस्तुशब्दः । एवं विधिमुखेनापि तं लक्षयति-विधिर्वति । इतिशब्दो लक्षणद्वयोपसंहारार्थः । एवंशब्दस्तु प्रकारवाचक इति न पौनरुक्त्यम् । तथाच एवं निरुक्तलक्षणद्वयप्र.