________________
गुणरत्नम् ७] सरसामोदव्याख्यासहितम् ।
२७७ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे । दोषविनिर्णयरूपं विषसंशं षष्ठमपि रत्नम् ॥ २३४॥
गुणरत्नम् ७ दोषमेवं प्रसार्याथ गुणान्संवर्णयाम्यहम् । भारतीक्षणसंतोषलब्धये नित्यमात्मनः ॥१॥
दोषरत्नमुपसंहरतस्तस्य युक्तां संज्ञामपि प्रथयति-गोक्षीरेति । पूर्वार्धे तु पूर्वमुक्तार्थमेव । दोषेति । पक्षे दोषस्य खाविर्भावोत्तरं देवासुरादीनां धृतिराहित्येन सर्वतः पलायनानिर्वीर्यत्वरूपस्य विशेषेण विश्वप्रसिद्धिलक्षणेन निर्णयो येन तादृशं रूपं यस्येत्यर्थः । स्पष्टमन्यत् ॥ २३४ ॥
इति सरसामोदाख्यव्याख्यायां विषसंज्ञस्य षष्ठस्य दोषरत्नस्य विवरणम् ॥ पूर्वोत्तररत्नयोः संगतिं वदन् गुणरत्नप्रयोजनमपि विशदयति-दोषमिति । एवं पूर्वोक्तरीत्या दोषं शब्दादिनिष्ठमुक्तसंख्याकं काव्यहेयधर्ममित्यर्थः । प्रसार्य प्रपञ्च्य अथ तदुत्तरं अहं ग्रन्थकारः गुणान् काव्योपादेयधर्मान् संपूर्णमाधुर्यादिगुणानुक्तदोषापवादांश्चेति यावत् । आत्मनः स्वस्य नित्यमखण्डम् । एवंच परप्रयोजनार्थत्वस्य क्षणिकसंतोषस्य च व्युदासः सूचितः । तयोः प्राचीनग्रन्थतो. ऽपि संभवात् । ममापि ततस्तत्संभवेऽपि तत्तद्रन्थानामेकत्र सरससंमेलनार्थमेवायमायास इति हृदयम् । भारतीति । भारती श्रीमद्वाल्मीक्यादिकवीन्द्रवाणी तस्याः यदीक्षणं तात्पर्यपर्यालोचनं तेन यः संतोषस्तस्य लब्धिस्तस्या इत्यर्थः। संवर्णयामि सम्यक पूर्वाचार्यवचोनुसारेण विचारपूर्वकमेव प्रस्तौमीत्यन्वयः। पक्षे मानवती स्वमनोरमां प्रार्थयतः कस्यचित्तत्कालमागतां किमेतदिति पृच्छन्ती ना. यिकारहःसखीं प्रत्युक्तिरियम् । हे प्रियावयस्ये, अहं एवं इत्यभिनयः। सादृश्यं वा । दोषं बाहुम् । उपलक्षणमिदं बाह्वन्तरस्यापिाजात्यभिप्रायकं वा एकवचनम् । तथा चालिङ्गनार्थ बाहुद्यमद्य यथा प्रसारितं तथा प्रसार्येत्यर्थः । अथ अनन्तरं गुणान् रूपादीनस्याः साधुधर्मान् आत्मनः खस्य नत्वस्या एव अबन्धित्वात्, नाप्यन्यस्य असखीत्वात् । तत्रापि नित्यं नतु क्वचित् । तेन खस्मिन्हढानुरागित्वं नायिकायां विपुलमानशालिनीत्वं स्वकीयात्वं च सूचितम् । भारतीति । भा गुणवर्णनश्रवणेन प्रसादान्मन्दस्मितकान्तिः तया यद्रतीक्षणं हार्दानुरागस्यानुमा तत्पूर्वकं वा रतीक्षणं प्रसन्नतया सुरतप्रदानानुभवस्तेन संतोषलब्धय इत्यादि प्राग्वत् । संवर्णयामि शास्त्रप्रतिपादितकामपुरुषार्थरीत्या कथयामीत्यर्थः । पक्षान्तरे दोषं स्वदुर्गुणं आत्मनः गुणान् सत्यत्वादीन्धर्मान् । आत्मनः भारतीति महावाक्यजज्ञानेन ब्रह्मानन्दाप्तय इत्यर्थः । शिष्टं तु स्पष्टमेव । अत्र श्लेषोऽलंकारः ॥१॥
२४