________________
२७६
' साहित्यसारम् ।
[पूर्वार्धे गजेन्द्रा अपि जीवन्ति नहि सिंहावलोकनैः । अङ्गने त्वदपाङ्गेन स्वान्तं मे हन्त कृन्तितम् ॥ २३०॥ कृष्णस्ते कबरीभारः शितिकण्ठस्वयंभुवौ । स्तनौ तव चकोराक्षि मामवन्तु स्मरातुरम् ॥ २३१ ॥ प्राच्यमेवमुदीच्यं च मतमालोच्य निश्चिता । इहैषा सर्वदोषाणां संख्या वस्वश्वभूमिता ॥२३२॥
एवमन्येऽपि शब्दार्थदोषाः प्रोह्या मनीषिभिः। - एतेषामपवादादि त्वग्निमे रत्न ईश्यताम् ॥ २३३ ॥ मित्याशयः ॥. २२९ ॥ तत्रार्थान्तरन्यासं संक्षिपति-गजेन्द्रा अपीति । वलितग्रीवं ह्यवलोकनं सिंहावलोकनमित्युच्यते । पक्षे सिंहस्येति षष्टीसमासः स्फु टएव । अपिना स्वल्पदेहवतामस्माकं तदभावः कैमुत्यसिद्ध एवेति व्यज्यते । तस्मादुक्तप्रार्थनमेव संपाद्यं भवत्येवेति भावः । तत्र खानुभवमपि प्रमाणयति–अङ्गने इति । 'कृन्तितं क्रकचादिनेव खण्डितमिति यावत् ॥२३०॥ अथ लोभं जनयितुं तां स्तुन्वन्पुनरपि रतिप्रार्थनमेव व्यनक्ति-कृष्ण इति । नीलः । शितीति । शितिनीलिमा कण्ठे ययोस्तौ च तौ स्वयंभुवौ खत एव यौवने प्रादुर्भवनशीलौ चेति तथेत्यर्थः । एते कंबरीभारादय इत्यध्याहारस्तु स्मरातुरत्वाद्गुणावह एव । स्फुटमेवान्यत् । यथावा भामिनीविलासद्वितीयशतके प्रायः प्रतिपद्यमपि ॥ २३१ ॥ अथोपसंहारव्याजेन पूर्वोक्तनिखिलदोषाणां संख्या कथयति-प्राच्यमिति । प्राचां मंमटभट्टादीनामिदं प्राच्यमित्यर्थः । एवं तद्वत् उदीच्यं उदीचां उत्तरकाले जायमानानां जगन्नाथपण्डितराजादीनामिदं तथेत्यर्थः । एतादृशं च मतं सिद्धान्तजातं आलोच्य विचार्य निश्चिता निणीते. त्यर्थः । इह प्रकृतग्रन्थे । वस्विति । वसवः अष्ट, अश्वाः सप्त, भूः एकसंख्या । एवंच अङ्कानां वामतो गत्या अष्टसप्तत्यधिकैकशतं शब्दादिदोषसंख्येत्यर्थः । निश्चिता निर्णीतेति संबन्धः । मयेति शेषः । नन्वेवमलंकारदोषा अपि केचित्किमिति नोक्ता इतिचेत्तेषामुक्तेष्वेव यथायथमन्तर्भावसंभवादिति गृहाण । सच काव्यप्रकाशसाहित्यदर्पणादौ प्रपञ्चित एवानतिप्रयोजकत्वादुक्तदोषविदा खयमप्यूहितुं शक्यत्वाच नेहोपन्यस्त इति दिक् ॥ २३२ ॥ इदमपि केवलं दिक्प्रदर्शनमेवेति द्योतयन्भविष्यद्रन्थकारैरप्यनयैव रीत्यान्येषामपि तेषां तत्तदधिकारिमतिवैशद्यार्थे प्रोहनं कार्यमेवेत्याह-एवमिति । एतेन 'सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः' इति, 'निर्दोषं हि समं ब्रह्म' इति चान्वयव्यतिरेकस्मृतिसद्भावाद्यावदृश्यस्यापि दोषैकरूपत्वादुक्तसंख्याका एव काव्यदोषा इति कथं नियम्यत इत्युक्तिः प्रत्युक्ता । ननु प्राचीनैः केषांचिद्दोषाणामपवादोऽप्युक्त इत्यत्राह-एतेषामिति । आदिना गुणग्रहः । तुशब्दः प्रोक्तशङ्काशान्त्यै ॥