________________
२८१
गुणरत्नम् ७] सरसामोदव्याख्यासहितम् ।
२८१ तत्रापि धर्मसंज्ञस्य गुणस्य गुणता त्वियम् । रसस्योत्कर्षहेतुत्वे सति तद्धर्मताथवा ॥९॥ तदेकस्थितितोऽयोगव्यवच्छेदोपकारिता । इति त्रिधा बुधैया शूरतादिरिवात्मनः॥ १०॥ वीरे रौद्रे च बीभत्से वर्णः श्रुतिकटुर्गुणः।
किं ते वक्रेक्षया बाले धिक्त्वां कामाचर्म च ॥ ११ ॥ मयेति शेषः । तथा उभौ मुख्यौ कर्मीभूतौ तौ वक्ष्यामः द्वादशरत्नेऽष्टमनवमयोश्च कथयिष्याम इत्यन्वयः। वयमित्यध्याहारः। एवं तटवशिष्टानां का गतिरित्यत्राहप्रोच्यन्त इति । अपरे इतरे अमुख्याः ये धर्मलक्षणरीतिवृत्तिसंज्ञास्ते चत्वारोऽप्यत्रैव प्रोच्यन्तेऽस्मिन्नेव रत्ने कथ्यन्त इति संबन्धः ॥ ८॥ भवत्वेवमथापि किं धर्माख्यस्य तस्य तथा तत्र निर्दोषेत्यादिकाव्यलक्षणे विवक्षितस्य यावदोषाभावरूपस्यापि तस्यात्र गुणत्वावच्छेदेनेष्टस्य साधारणं किं लक्षणमित्यतस्तत्प्रपञ्चयति-तत्रापीति युग्मेन । का सेत्यत्राह-रसस्येति । सत्यन्तेन रसत्वेऽतिव्याप्तिवारणेऽपि व्यभिचारिभावेषु तत्त्वमित्यखरसादाह-अथवेति ॥९॥ तदेकेति । सत्यन्तमनुकृष्य योज्यम् । अयोगेति । पूर्वत्र गौरवादेवेदम् । अयोगव्यवच्छेदे ह्यविनाभावः रसं विना स्वराहित्यं तेन या उपकारिता रसपोषकतेत्यर्थः । तदुक्तं प्रदीपे। एवंच रसस्योत्कर्षहेतुत्वे सति रसधर्मत्वम् , तथात्वे सति रसाव्यभिचारिस्थितित्वं, अयोगव्यवच्छेदेन रसोपकारकत्वं चेति लक्षणत्रयं गुणानां द्रष्टव्यमिति । उपसंहरति-इतीति । तत्र दृष्टान्तं स्पष्टयति-शूरेति। आत्मनः जीवस्येत्यर्थः । अलंकारेषु अयोगव्यवच्छेदाभावान्नातिव्याप्तिरितियावत् । आदिना धीरविचारिते ॥१०॥ तत्र यद्यपि दोषरत्ने 'तत्राद्य एकधा वीर' इत्यादिना वर्णदोषापवादः सूचित एव, तथापि किमत्र श्रुतिकटोर्वर्णस्य गुणत्वकरणादित्या. द्युक्तापवादेषु द्वितीयकोटिरूपदोषत्वाभावमात्रमुत तदुक्ताद्यन्त्यकोटिलक्षणगुणत्वाद्यपीति शङ्काशान्त्यर्थ गुणत्वाद्येव तत्र यस्येति स्फुटयति–वीर इति । रस इति शेषः । त्रिष्वपि क्रमेण तमुदाहरति-किं त इति । हे बाले मुग्धे, ते तव वक्रेक्षया मुखवीक्षया किं, न किमप्यस्मदिष्टमित्यन्वयः। अत्र त्यागवीरे ऋकारस्य रेफघटितझयद्वयसंयुक्तत्वेन श्रुतिकटोरपि तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजखिन्यनुकूला ये चानुकूलास्ते प्रतिकूला इत्यादि रसगङ्गाधरोक्तेरनुकूलत्वेन रसपोषकत्वाद्गुण एवेति भावः । एवं वीरे श्रुतिकटपवादमुदाहृत्य रौद्रबीभत्सयोरपि तमुदाहरति-धिगित्यादि चरमचरणेन । रे काम, त्वां धिगस्त्विति संबन्धः । इह क्रोधस्थायिभावात्मा रौद्रः स्पष्ट एव । तेन क्त्वा. मिति झयद्वयसंयुक्तवकारस्य श्रुतिकाटवेऽपि गुणत्वमेवेत्याशयः । एवं आर्द्रचर्म च विगेव । आई क्लिन्नं मूत्रादिदिग्धं एतादृशं यच्चर्म योनिसंज्ञकं प्रसिद्धमेव तदपि धिगेवेति योजना । इहार्द्रचर्मपदेनैव बीभत्सस्य व्यक्तत्वादाति रेफद्वयघटितदका