SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोद व्याख्यासहितम् । तथाभिव्यञ्जनं चापि साधारणविशेषणैः । विना विरोधिनोर्व्यक्तिः स चतुर्थोभयोर्मतः ॥ २२४ ॥ यद्भाले कुङ्कमं वाले तव तेनेन्दुरेधते । तन्मार्जने कथं हन्त धिगङ्गं रक्तपूरितम् ॥ २२५ ॥ दिपादोनद्वाभ्याम् । असामानाधिकरण्यमित्यर्थः । विना विरोधिनोर्व्यक्तिरिति द्वितीयस्य तृतीयपादः पञ्चस्वपि संबध्यते । तेन 'कुण्डलीकृतकोदण्ड दोर्दण्डस्य पुरस्तव । मृगारातेरिव मृगाः परे नैवावतस्थिरे' इति रसगङ्गाधरीयोदाहरणे वीरभयानकयोर्नायकप्रतिनायकनिष्ठत्वेन सामानाधिकरण्याभावान्नातिप्रसङ्गः । व्यवधानमिति । उभयाविरोधिरसेष्वन्यतमेन रसेन व्यवधानं विनेत्यादिप्राग्वत् । एवं च 'सुराङ्गनाभिराश्लिष्टा व्योम्नि वीरा विमानगाः । विलोकन्ते निजान्देहान्फेरुनारीभिरावृतान्' इत्यत्रापि तत्पद्ये सुरस्त्रीस्खशवालम्बनयोः शृङ्गारबीभत्संयोः पूर्वार्धोक्तस्वर्गमनान्यथानुपपत्तिध्वनितवीररसव्यवधानान्नातिव्याप्तिः । अङ्गाङ्गीति । अङ्गाङ्गिभावेन स्मरणप्रतिपाद्यत्वेन प्रधानीभूतस्य रसस्य परिपोषकतया साध्यसाधनभावाद्विरुद्धस्यापि रसस्य स्मरणमित्यर्थः । एतेन 'प्रत्युद्गता सविनयं सहसा सखीभिः स्मेरैः स्मरस्य सचिवैः सरसावलोकैः । मामद्य मञ्जुरचनैर्वच - नैश्च बाले हा लेशतोऽपि न कथं वद सत्करोषि' इति भामिनीविलासीय करुणाख्यतृतीयोल्लासश्लोके नायकालम्बिन्याः प्रत्युद्गमाद्यनुभावितायाः हर्षा क्सिहचा रिभिः पोषितायाः स्मर्यमाणायाः नायिकाश्रिताया रतेर्नायिकालम्बनः पुरो निपतितच्छवोद्दीपनोऽश्रुपाताद्यनुभावः स्मृत्यादिसंचारी प्रकृतत्वेन प्रधानीभूतत्वान्नायकनिष्ठः शोक एवाङ्गीति नात्र व्यभिचारः । अन्यस्येति । तावता च ‘मेरुशृङ्गतटोल्लासिगङ्गाजलरयोपमा । दृष्टा यस्मिन्स्तने मुक्ताहारस्योल्लासशालिता । श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिराखाद्यते काले लघुपिण्ड इवान्धसः' इति योगवासिष्टीययुग्मे शृङ्गारबीभत्सयोः प्राकरणिकतयावाप्तशान्तरसाङ्गत्वेन न तत्र तदापत्तिः । अत्र पूर्वार्धचकारः समुच्चये । उत्तरार्धचकारैवकारौ तु पादपूरण एव ॥ २२३ ॥ तथाभिव्यञ्जनं चापीति । साधारणेति । सामान्येन रसद्वयध्वननधुरीणत्वं साधारण्यम् । तथाच 'नितान्तयौवनोन्मत्ता गाढरक्ता महाहवे । वसुंधरां समालिङ्गय शेरते वीर तेऽरयः' इति जगन्नाथीयपद्ये नितान्तेत्यादिभिः साधारणविशेषणैरेव शृङ्गारबीभत्सयोरभिव्यक्तेर्न दोषः साधारणविशेषणैः विरोधिनोः रसयोरिति शेषः । अभिव्यञ्जनमपि अभिव्यक्ति विनापि च विरोधिनोः पूर्वोक्तवैरवतोः रसयोर्व्यक्तिर्ध्वननं चेत्परस्परविरोधाभिधो रसदोषविशेषो भवतीति अध्याहृत्य संबन्धः । एवं प्रतिप्रसवपञ्चकमभिधाय पूर्वोक्तविरोधचातुर्विध्यात्तस्यापि तावन्मात्रभेदवत्त्वं प्रतिजानंस्तस्य तथात्वं प्राचीनादिसंमतमेवेत्याह-स इत्यादिशेषेण । सः निरुक्तदोषः । सर्वमिदं रसगङ्गाधरे स्फुटमेव ॥ २२४ ॥ तानेव चतुरोऽपि भेदान् क्रमेण २७३
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy