________________
२७४
साहित्यसारम् ।
[ पूर्वार्धे किमरे क्षत्रडिम्भ त्वं धनुर्भङ्गेन दृप्यसि । अहो केयं तनोः कान्तिः कमनीयतमाकृतेः ॥ २२६ ॥
विवक्षुः प्रथमं शृङ्गारतद्विरोधिभेदमुदाहरति-यदिति । हे बाले, तव भाले यत्कुकमं तिलकीभूतं यत्काश्मीरं तेन कारणेनैवायमिन्दुश्चन्द्रः । एधते वर्धत इत्यन्वयः । अयि मुग्धे, अयं चन्द्रो हि त्वद्भाले आरक्तं कुङ्कुमतिलकं दृष्ट्वा मृगाङ्कस्य मम संपूर्णशोभा त्वस्याः मुखेन नैवापहृता । यदि अनया कस्तूरिकातिलकधारणं कृतं स्याचेत्तदपि स्यादेव, परं त्वनया तन्नैव क्रियते किंत्वारक्तवर्णस्य कुङ्कमस्यैव भाले तिलकं विधीयत इति मयि यत्किंचिदवच्छेदेनापि शोभा वर्तत एवेति शोको नैव मया विधेय इति विवेकवशात्पुनरपि शुक्लपक्षे परिपुष्टो भवतीति भावः । एवं च त्वदाननं चन्द्रादप्यधिकतमशोभाशालीति स्तुतिः सूचिता । तेनात्र मुग्धा स्वकीया मानवती आलम्बनम् । उक्तस्तुत्यन्यथापत्तिसिद्धरहःस्थानाद्युद्दीपनम् । तत्सौन्दर्यदर्शनादिजन्यरोमाञ्चादिरनुभावः । तत्प्रसादाभिलाषादिः सहचारी च । एतैः पुष्टो नायकनिष्टो निरुक्तनायिकाविषयको रत्याख्यः स्थायिभाव एव तस्याः मानवतीत्वेन वियोगकालावच्छिन्नत्वाद्विप्रलम्भः स्वकीयाविषयत्वाच स्पष्टः शृङ्गाररस एव रूपकविशेषात्प्राधान्येन चमत्कारकारित्वाद्धन्यते । अथ तद्विरोधिनं करुणं संक्षिपति-तदित्यादितृतीयपादेन । हन्तेति खेदे । तन्मार्जने मन्मरणोत्तरं निरुक्ततिलकक्षालने सति कथं स्यादिति संबन्धः । एवं तादृशं शान्तं सूचयति-धिगङ्गमिति । अतो निरुक्तनिरतिशयदुःखहेतुत्वादशं आवयोः शरीरमेव धिगिति योजना। तद्वदेव तत्र हेतुं द्योतयन् बीभत्समपि व्यञ्जयंस्तद्विशिनष्टि-रक्तति । अत्र सामानाधिकरण्यं अव्यवधानं अनङ्गाङ्गिभावः । अनन्याङ्गत्वं साधारणविशेषणैरनभिव्यञ्जनं च शृङ्गारकरुणाद्यन्यतमयोः स्फुटमेवेति दिक् ॥ २२५ ॥ एवं रौद्राद्भुतविरोधमुदाहरति-किमिति । इयं हि भगवतः परशुरामस्य श्रीराम प्रत्युक्तिः । अरे इति नीचसंबोधने । तेन क्रोधो ध्वनितः । क्षत्रेति । क्षत्रियकुलार्भकेत्यर्थः । तेन तत्कृतखपितृवधादिस्मृतिः सहचारिभावः सूचितः । डिम्भपदेन 'पोतः पाकोऽभको डिम्भः' इत्यमराच्छिशुवाचित्वादनादरो व्यक्तः खनिष्ठगर्वश्च । धनुरिति चन्द्रचूडचापचूर्णीकरणेनेत्यर्थः । एतेनोद्दीपनविभावो व्यक्तः । दृप्यसि धन्यतां मनुषे किमित्याक्षेपः । एवंच लोचनारुण्याद्यनुभावोऽपि द्योतितः। एतैः परिपुष्टः श्रीरामालम्बनः परशुरामनिष्ठः पूर्वोक्तक्रोधाख्यः स्थाय्ये. वात्र रौद्ररसः प्रधानतया व्यज्यते । तद्विरोधी चैकालम्बनवात्सामानाधिकरण्यादिभिरहोइत्युत्तार्धेऽद्भुतश्च । कमनीयेति । रम्यतमव्यक्तेः श्रीरामस्येत्यर्थः । एतेनावयवसौष्ठवं सूचितम् । तथाच अहो इत्याश्चर्ये । इयं पुरोवर्तिनी तनोः वपुषः कान्तिः लावण्यं का, अनिर्वाच्यैवेति न वक्ष्यमाणेन पौनरुक्त्यम् । अत्रापि विस्मयादिरस