________________
२७२
साहित्यसारम् ।
चतुर्दशापि नन्वेते वाक्य प्रथमदूषणे । अन्तर्भवन्त्यतोऽमीषां प्रपञ्चाग्रन्थगौरवम् ॥ २२० ॥ मैवं दोषगसौक्ष्म्यस्य ज्ञत्यै तस्यैव विस्तरः । मयोपपादितोऽत्रायं रसगङ्गाधरोक्तितः ॥ २२९ ॥ शृङ्गारकरुणाशान्तबीभत्सान्यतमौ मिथः । शत्रू रौद्राद्भुतौ हास्यघृणे वीरभयानकौ ॥ २२२ ॥ अनेकाधिकरण्यं च व्यवधानं रसान्तरैः । अङ्गाङ्गिभावस्मरणमन्यस्याङ्गत्वमेव च ॥ २२३ ॥ काव्ये शब्दादिदोषा दुर्निवार्यास्तर्हि तैस्तत्प्राचीनैश्च शास्त्रादौ किमिति ते समुपन्यस्तास्त्वयाप्यत्र तत्पल्लवनं किमिति कृतमित्युक्तिः प्रत्युक्ता । तस्य कविना स्वकाव्यस्य व्यावहारिकसत्वसिद्धये निरुक्तदोषप्रमोषानुकूल प्रतिभा विशेष सहायेनावश्यंभाव्यमित्येतावन्मात्र तात्पर्यकत्वादिति क्षन्तव्योऽयं परदूषणप्रपञ्चनादिरूपोऽस्मदविनयः सहृदयधौरेयैरिति शिवम् ॥ २१९ ॥ तत्रैवं नव्यमतोक्तरसदोषाणां प्रतिकूलवर्णत्वाख्यप्रथमवाक्यदोषान्तर्भावत्वेन गतार्थत्वात्तत्प्रपञ्चनेन ग्रन्थगौरवं शङ्कते - चतुर्दशापीति । ननु एते प्रागुक्तलक्षणा: झय्घटितसंयोगपरह्रखवर्णप्राचुर्यादयः चतुर्दशापि एतत्संख्याका अपि वाक्येति प्रतिकूलवर्णत्वाख्ये प्रथमे वाक्यदोष इत्यर्थः । यतः हेतोः अन्तर्भवन्ति 'विरुद्धवर्णतावाक्ये रसाद्यनुचिताक्षरैः। नवोढे प्रौढतामोढुं गाढा श्लेषादृढीभव' इति प्रागुक्तत्वात्तदुक्तिमात्रेणैव चारितार्थ्यमायान्तीति यावत् । अतः कारणात् अमीषां निरुक्तदोषाणां प्रपञ्चात् व्यर्थमुपन्यासात् ग्रन्थगौरवं प्राप्तमित्यन्वयः ॥ २२० ॥ समाधत्ते मैवमिति । तत्र हेतुं द्योतयति — दोषगेति । एवं निरुक्तग्रन्थगौरवशङ्कनं मा । नैव ं कार्यमित्यर्थः । यतः मया दोषगसौक्ष्म्यस्य पूर्वोक्तप्रतिकूलवर्णत्वाख्यदोषनिष्ठभेदविशेषसूक्ष्मत्वस्येति यावत् । ज्ञत्यै स्पष्टतयावबोधार्थं तस्यैव प्रतिकूलवर्णत्वाख्यदोषस्यैव विस्तरः प्रपञ्चः अयं प्रत्यक्षः । रसेति । ता उक्तयस्तु तत्रैव द्रष्टव्याः सूरिभिर्विस्तरभयान्नेहो दाह्रियन्ते । अत्र प्रकृतग्रन्थे । उपेति । हेयोपादेय विचारपूर्वकं प्रतिपादित इति योजना ॥ २२१ ॥ एवं नव्यसंमतदोषानुपन्यस्याथोभयसंमतं परस्परविरोधाख्यं रसदोषचतुष्टयं वक्तुं तद्विरोधानाह - शृङ्गारेति । शृङ्गारश्च करुणाशान्तबीभत्सान्यतमश्चेति द्वन्द्वः । मिथः अन्योन्यं । हास्येति । हास्यश्च घृणा करुणा चेति तथा हास्य करुणावित्यर्थः । उक्तं हि काव्यप्रदीपे प्राचां वचनम् 'ज्ञेयौ शृङ्गारबीभत्सौ तथा वीरभयानको । । रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः' इति । रसगङ्गाधरेपि शृङ्गारबीभत्सयोः शृङ्गारकरुणयोवरभयानकयोः शान्तशृङ्गारयोश्च विरोधः' इति ॥ २२२ ॥ ननु किमत्र कश्चित्प्रतिप्रसवोऽप्यस्ति किंवा निरुक्तविरोधयोरेव रसयोर्यथाकथंचिद्रथनं सामान्यतोऽपि चेद्दोष एवेत्याशङ्कय तत्र प्रतिप्रसवपञ्चकमाह । अनैकाधिकरण्यं चेत्या
1
1
[ पूर्वाध