________________
विपरत्नम् ६]
सरसामोदव्याख्यासहितम् ।
२७१
इत्यादि क्रियते तदा सर्वमेव रमणीयमित्युक्तं, तत्र दन्तयोः अंशुकान्तः 'चेलंवसनमंशुकम्' इत्यमराद्वसनान्तो यस्येति समासान्मुखे दन्तधृतवसनपल्लवत्वप्रतीत्या निन्दाध्वननाद्याघातापत्तिर्दुर्वारैव । दन्ताशुभिः कान्तमिति वा निरुक्तसमासो वा कार्य इति संदिग्धत्वं च। नच प्रथमसमासस्यागतिकस्थलीयत्वात्प्रकृते व्याघातापादकत्वाच्च द्वितीय एव श्रेयानिति वाच्यम् । तथापि विरुद्धमतिकृत्त्वाख्यपददोषस्यानपहवात् । तद्वत् 'इयमुलसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते । जलदालिमयं जगद्वितन्वन्कलितः क्वापि किमालि नीलमेघः' इति लमनानां स्वात्मना संयोगस्तु न तथा पारुष्यमावहतीत्यत्र यदुदाहृतं तत्र नायिकानयनयोरम्बुजरूपकत्वेन भगव - तश्च नीलमेघरूपकत्वेन तयोस्तद्दर्शनैकहेतुत्वेन यत्फुल्लत्वं वर्णितं तत्प्रत्यक्षविरुद्धमेव । नहि नूतनघनदर्शनेन कमलं विकसतीति लोके दृष्टं प्रसिद्धं वा कविसमये । मुखेऽपि शोभोल्लासपदद्योतितं चन्द्रत्वमेव वाच्यम् । तथाच तच्छोभोलासस्यापि न मेघनवोदय निरीक्षणकार्यत्वं स्वप्नेऽप्युपपद्यत इति दुर्निरसमेव विरुद्धार्थकत्वम् । एवमुपध्मानीय प्राचुर्योदाहरणे 'अलकाः फणिशावतुल्यशीला नयनान्ताः परिपुङ्खितेषुलीलाः । चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा' इत्यत्र द्वावुपध्मानीयौ शान्तरसाननुनुणाविति वक्तुः शान्तरस्रो योऽयं ध्वन्यध्वनाभिप्रेतः स तावच्चतुर्थचरणेन यथाकथंचिन्निर्वेदद्योतनविवक्षया संपद्यमानोऽपि त्रिभिः प्राक्तनचरणैर्दुः खजनक फणिशावादिरूपकतोऽपि तत्सौन्दर्यस्यैवालकेषु नीलत्वारालत्वादिना नयनान्तयोः पक्ष्मलत्वचपलत्वादिना तस्यां च गौरवर्णोत्कर्ष शालित्वेन च सूचितत्वान्नैवासौ परिपोषमर्हति किंतु चपलेति पदव्यक्तवर्षागमनोद्दीपनेन तदलकादि सौन्दर्यस्मृतिजन्यपुलकायनुभावेन निरुक्तस्मृति निर्वेदादिव्यभिचारिणा च परिपुष्टः पूर्वानुभूतनायिकालम्बितो नायकनिष्टो वियोगकालावच्छिन्नरतिरूपस्थायिभावात्मा लोकपदध्वनितस्पष्टत्वेन स्वकीया - विषयको विप्रलम्भ एव व्यज्यते । यदि तु 'अलकाः परमम्बरैकनीला नयनान्ताः पुनरेणतोयशीलाः । स्वयमप्यथ शालभञ्जिकाया' इति त्रिपादीविन्यासस्तदा यावत्तदलका दिसौन्दर्यस्य भ्रमैकरूपत्वेन तदुपलक्षितनिखिलद्वैतालम्बनः खकार्ण्यदर्शनोद्दीपनः सर्वदुःखानुसंधानजन्यरोमाञ्चाद्यनुभावः स्मृत्यादिसंचारी च निवृत्ताश्रितोऽतिपूर्णतां यातो निर्वेदस्थायी घटेतापि ध्वनयितुं शान्तः नतु तथास्तीति किमभिप्राया तदुक्तिरिति कृतमतय एव विदांकुर्वन्तु । ननु तर्ह्येवं त्वत्काव्येऽप्यत्रान्यत्र च किं न सन्ति दोषा इति चेत्सत्यम् । यत्र महानुभावानां श्रीमद्गङ्गाप्रसादवत्त्वेन सुप्रसिद्धानां पण्डितराजानामपि काव्ये तत्सलं तदा कैव कथा परमपामरस्य मे । वस्तुतस्तु 'निर्दोषं हि समं ब्रह्म' इति श्रीमद्भगवद्वचनाद्यावद्दृश्यस्य दोषैकरूपत्वं नैसर्गिकमेव । नचैवं चेत्तर्हि शास्त्रे लोके चगुणदोषव्यवस्था व्यथैव स्यादिति वाच्यम् । तस्या व्यावहारिकविषयत्वात् गीता वाक्यादेस्तु पारमार्थिकवावलम्बित्वाच । एतेन यद्येतादृशां महतामपि