________________
[पूर्वार्ध
२७०
साहित्यसारम् । हखवर्णस्य रेफघटितझयूद्वयसंयोगस्य च नैकट्येन । तथा निःश्वासग्लपिताधरमिति नैकट्येन विसर्जनीयसादेशझय्घटितसंयोगपरहखवर्णयोस्तद्वत्परिपतद्वाष्पाईवक्षोरुहेति नैकट्येनैव झयूघटितसंयोगपरहववर्णद्वयस्य रेफद्वयघटितस्य दीर्घानन्तरझयूसंयोगस्य केवलदीर्घानन्तरझयूसंयोगस्य च । तथा शिवप्राणेशमिति झयूघटितरेफसंयोगपरहखवर्णस्य च प्रयोगादेतेऽश्रव्याख्याः शब्ददोषाः,तथा प्रयाणसमय इति विरुद्धमतिकृदमङ्गलरूपाश्लीलं वा तद्वत्केलीत्यादिदीर्घसमासं तद्विशेषणद्वयं च न कयाचिदपि रीत्या परिहतुं शक्यते । एवं द्वितीयेपि आविर्भूतेति रेफघटितझयूसंयोगपरहखवर्णस्तथा मधुस्पन्दिनीति संयोगपरहखवर्णस्तद्वन्नन्दसूनोः कान्तिः काचिदिति नैकट्येन जिह्वामूलीय युगुलं तथा नयनाकर्षण इति रेफघटितसंयोगपरह्रखवर्णस्तद्वत्कार्मणज्ञेति रेफघटितसंयोगस्तद्वत्संयोगपरहस्ववर्णश्च तथा दीर्घस्तदवधीति निरुक्तद्वयमेव । तद्वत्पाण्डिमागण्डयुग्मे इत्यत्र टवर्गप्राचुर्य ग्राम्याख्यमश्लीलं संयोगपरह्रस्ववर्णश्च वृत्तिरित्यत्रापि स एवा तथा वृत्तिःकुलेति जिह्वामूलीयस्तद्वच्चेतसि प्रादुरासीदिति रेफघटितझयूसंयोगपरहववर्णश्चेति शब्ददोषास्तथा पूर्वार्धोक्तविलक्षणभगवत्तारुण्यदर्शनोत्तरं उत्तरार्धवर्णितस्य कुलमृगदृशां दीर्घश्वासादिविरहचिह्नचयस्य प्रकृतविधेयधर्माणां परकीयास्वेव योग्यत्वेन तद्विरुद्धकुलेत्यादिपतिव्रतानुवादघटितत्वादनुवादायुक्तनामकार्थदोषस्तद्वत्तदवधिमुखे दीघः श्वास इति प्रत्यक्षविरुद्धाख्यश्चापरोऽसावार्थिकोऽपि कथं वा पराकरणीयः । श्वासस्य नासिकैकाधिकरणतायाः प्रत्यक्षसिद्धलात्कदाचिदतुलव्याकुलीभावविशेषे तस्य मुखेऽपि सखोपलब्धेस्तद्विवक्षयास्य समाधानेऽप्युर्वरितास्तु ते दुर्वाराएवेति बोध्यम् । अपिच 'लोलालकावलिवलनयनारविन्दलीलावशंवदितलोकविलोचनायाः। सायाहनि प्रणयिनो भवनं व्रजन्त्याश्चेतो न कस्य हरते गतिरङ्गनायाः' इति दीर्घसमासदोषोदाहरणे तावल्लोकेत्यादिना सर्वजनमनोवशीकारस्य लोचनवशीकारोक्तिनान्तरीयकसिद्धत्वेऽपि पुनश्चेतो न कस्य हरत इत्यादिना तदनतिरिक्तार्थस्यैवोक्तवादार्थिकी पुनरुक्तिः केनापनेया। नच प्राथमिकं लोकमनोहरणं निरुक्तधर्मिकर्तृकमन्यं तु तद्गत्याख्यधर्ममात्रकर्तृकमिति स्पष्टमेवेति नोक्तदोषापत्तिरिति वाच्यम् । तत्रापि लोलालकावलीत्यादिध्वनितवेगवत्तरगत्याख्यधर्मस्यापि सत्वेनोक्तापत्तितादवस्थ्यात् । एवं 'तुलामनालोक्य निजामखर्व गौराङ्गि गर्व न कदापि कुर्याः । लसन्ति नानाफलभारवत्यो लताः कियन्त्यो गहनान्तरेषु'इति रेफघटितसंयोगस्यासकृत्प्रयोगोदाहरणे, यदितु तुलामनालोक्य महीतलेऽस्मिन्निति निर्मीयते तदा साध्वित्युक्तं तत्र तथा निर्माणेपि 'गौराङ्गि गर्व न कदापि कुर्या' इति ताहक्संयोगयुगसत्त्वेनासकृत्त्वानपहारादोषानुद्धार एव । तथा झयूघटितसंयोगपरह्रखानां प्राचुर्य नैकट्येन 'हीरस्फुरद्रदनशुभ्रिमशोभि किंच सान्द्रामृतं वदनमेणविलोचनायाः । वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः' इत्युदाहृत्य तत्र यदि तु ‘दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतम्'