SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । २६९ लपुलकानुभावाचिरचुम्बनानुभावाच सुचिरव्याजनिंद्रारूपाद्वर्षरूपाच व्यभिचारिणोऽपि परिपुष्टः प्रोक्तनायकनिष्टरत्याख्यः स्वकीयाविषयत्वेन स्पष्टः परस्परतुल्यप्रेमत्वेन समः संयोगकालावच्छिन्नरतित्वेन संभोगशृङ्गारोऽप्यस्तु ध्वनिव्यपदेश्य इति वाच्यम् । सर्वत्र समानुरागक संभोग शृङ्गारावच्छेदेनैवं संभवेऽपि यूनोरेकतरस्यैव प्रवृत्त्यादिलिङ्गकानुमानादिना रतिप्राधान्यस्यावश्यं वाच्यत्वेन प्रकृते नायिकानिष्टरतेरेव तथात्वस्य सहृदयहृदयसाक्षिकत्वात् । एवमेवोक्तमुदाहरणचन्द्रिकायाम् । नायकरतेरुद्दीपनं नायिका चुम्बनं हासादिरनुभावः । हासव्यङ्गयो हर्षः संचारी । तथापि नायकविषयिण्या नायिकानिष्टाया रतेरुद्रेकश्चर्वणाविषय इति चिन्तनीयमिति । उद्यतेऽपि । अत्र यद्यपि परस्परस्यालम्बनत्वेनोभयोरपि रतिः प्रतीयते तथापि नायक विषयिण्या नायिकारतेरुद्रेक एव चर्वणाविषय इति सहृदयसाक्षिकमिति । तस्मादत्र यथाश्रुतरीत्या रसगङ्गाधरोक्तदूषणगणसंभवेऽपि निरुक्तव्याख्यया वीररसविशेषानुप्राणितो तशृङ्गारसत्वात्क नाम तदवकाशलेशोऽपि प्रत्युत गुणगणवत्त्वमेव । ननु तर्हिदीर्घसमासाभावः कथमिति चेदुभयरससत्वादेवेत्यवेहि । यच्च तत्रोक्तं क्त्वाप्रत्ययस्य पञ्चकृत्वो लोकतेश्च धातोर्द्विःप्रयोगः कवेर्निर्माणसामग्रीदारिद्र्यं प्रकाशयतीति, तत्तावत् 'आमूलाद्रत्नसानोर्मलयवलयितादा च कुलात्पयोधेये केचित्सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु । मृद्वीकामध्यनिर्यन्मधुरमधुझरीमाधुरीभाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः' इत्याद्युक्तनिर्माणसामग्री सामग्र्यसंपदव्यग्रेणापि तेन परमोत्कटे शान्तर - सेऽपि यदुदाहारि—'मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । श्वपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः' इति पद्यं, तत्र योयं पूर्वार्धे मलयानिलेत्याद्युपक्रान्त उत्तमाधममस्तस्योत्तरार्धे श्वपचेत्याद्यधमोत्तमवाचिपदेन भङ्गात्तेन सहैव समाधेयम् । ननूक्तमेव तेन तत्समाधानं तत्रैवाग्रे यद्यपि प्रथमार्धे उत्तमाधमयोरुपकमाद्वितीयार्थेऽधमोत्तमवचनं क्रमभङ्गमावहतीति स्वकाव्यदोषमनूद्य तथापि वक्तुर्ब्रह्मात्मकतया उत्तमाधमभावज्ञानवैकल्यं संपन्नमिति द्योतनाय क्रमभङ्गो गुण एवेति चेत्तर्हि किमपराद्धं प्रकृतपद्यरूपेण परकीयकाव्येनैव । अत्रापि वक्तुर्वीररसाद्याविष्टचेतस्त्वमुक्तमेवाश्लीला दिदूषणापाकरणम् । तेन क्व दूषणावसर इति संतोष्टव्यम् । किंच यत्तावत्त्वया विप्रलम्भोदाहरणद्वयमुक्तम् — ' वाचो माङ्गलिकीः प्रयाणसमये जल्पयनल्पं जने केली मन्दिरमारुतायनमुखे विन्यस्तवश्राम्बुजा । निःश्वासग्लपिताधरं परिपतद्वाष्पार्द्रवक्षोरुहा बाला लोलविलोचना शिवशिव प्राणेशमालोकते' इति । तथा — 'आविर्भूता यदवधिमधुस्यन्दिनी नन्दसूनोः कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा । श्वासो दीर्घस्तदवधि मुखे पाण्डिमा गण्डयुग्मे शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत्' इति च । तत्राद्ये माङ्गलिकीः प्रयाणेत्यत्रोपध्मानीयस्य । तथा जल्पत्य नल्पमिति झयूघटितसंयोगपरहखवर्णप्राचुर्यस्य नैकट्येन तद्वद्विन्यस्तवक्राम्बुजेति झयूघटितसंयोगपर
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy