SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६६ साहित्यसारम् । [ पूर्वार्धे परकीयकाव्यविमर्शनेनेति । अत्रेदं विचार्यते । किमत्र नहि निन्दान्यायेन निरुतवैदाख्यरीतेमधुररसावच्छेदेनावश्यसंपादनावधानविधान एवोक्तदूषणोपन्यासपर्यवसानमुत प्रत्यक्षत्वाद्विवक्षितान्येव तानि तत्त्वेन तवेति । आयेऽनुदितहोमादिवदिष्टापत्तिः । अन्त्यस्तु चिन्त्य एव । तथाहि काव्यप्रकाशे तावत् शृङ्गारस्य संभोगविप्रलम्भत्वाभ्यां द्वैविध्यं प्रकृत्य तत्राद्यः परस्परालोकनालिङ्गनचुम्बनाद्यनन्तभेदत्वादपरिच्छेद्य इत्येक एव गण्यत इत्युक्त्वा । यथा-'शून्यं वासगृहम्' इत्यादीदं पद्यं समुदाहृतम् । तत्रास्य वैदग्ध्यवीराख्यवीररसभेदविशेषानुप्राणितमु. ग्धनायिकारब्धचुम्बनात्मकसंभोगशृङ्गारोदाहरणत्वमेव वाच्यम् । ईदृग्भेदस्य क्वचित्प्रायेणादर्शनेऽपि निरुक्तरीत्या सामान्यतः संभोगशृङ्गारस्यानन्त्यात्प्रकृतपद्ये सूक्ष्मदृशां तथोपस्थितेश्च । तद्यथा अत्र निद्राव्याजमुपागतस्येति हसतेति च विदग्धोत्तमनायकविशेषणाभ्यामहो प्रौढापीयं मानैकपराधीनत्वान्मद्वयस्या मत्कृतप्रार्थनशतेऽपि नैव प्रसीदतीत्यतः परं किं करणीयमिति सचिन्तं कथयती खनायिकारहःसखी प्रति निरुक्तनायकोक्तिरियम् । पूर्ववृत्तकथनपूर्वकं स्ववैदग्ध्यातिशयसूचनेन तदाश्वासनार्थमयि सखि, बालापीयं मया प्रागीदृक् चातुर्येणातुल. मेवमुपभुक्तासीदधुना त्वियं प्रौढैवेति किमु वक्तव्यं विलक्षणेन तेनैनां संभोक्ष्या. मीयतस्त्वया नैव खिन्नतया भाव्यमिति । ननु कवेरेवेयमुक्तिनतु निरुक्तनायकस्य, प्रमाणाभावात्प्राचीनैर्व्याख्यातृभिः कैश्चिदपि तथानुक्तत्वाच । प्रत्युत शृङ्गारदीपिकाख्यायाममरुकशतकव्याख्यायामेतत्पद्यावतरणे कवेर्वाक्यमित्येवोक्तत्वादुदाहरणचन्द्रिकायामपि नवोढाया अभिनवसमागमवर्णनमिदमित्युक्त्या, तथा काव्यप्रदीपोद्योतेऽपि प्रथमावतीर्णमदनविकारमुग्धावर्णनमिदमिति वदता नागोजीभट्टेन तावन्मात्रताया एव द्योतितत्वाचेति चेत्सत्यम् । यत्र प्रकृतानुकूलार्थपुष्टयाधिक्यं तत्पक्षस्यैव सहृदयधुरीणैरादरणीयतरत्वाद्दीपिकावाक्यस्य त्वापातिकत्वाचन्द्रिकोद्योतयोस्तु मत्संमतनायकविशेषवाक्यत्वपक्षेऽप्यनुकूलत्वादर्थपुष्टेस्त्वत्रैवाधिक्यस्यानतिविपश्चितामपि संमततमत्वाच्च । नच रसद्वयसांकर्यमदृष्टचरम् । 'यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनर्लभ्ये । विमनायते यदैकस्तदा भवेत्करुणविप्रलम्भरसः' इत्युद्योतकारोदाहृतप्राच्यवचनेन परस्परविरुद्धयोरपि शृङ्गारकरुणयोरविरोधेन सांकर्यसिद्धावविरुद्धयोर्वीरशृङ्गारयोस्तत्र बाधकाभावेन तत्सिद्धेरभिसारिकायमाणत्वात् । तदविरोधादिकं तु रसगङ्गाधर एवोक्तम् । तत्र वीरशृङ्गारयोः शृङ्गारहास्ययोवाररौद्रयोः शृङ्गाराद्भुतयोश्चाविरोधः । शृङ्गारवीभत्सयोः शृङ्गारकरुणयोवरिभयानकयोः शान्तङ्गारयोश्च विरोध इति । नाप्यस्तु नामैवमविरुद्धत्वेन शृङ्गारवीरयोः सांकर्यमथाप्युक्तरूपस्य वैदग्ध्यवीरस्य लोके शास्त्रे च सुतरामप्रसिद्धत्वमिति । एवं पाण्डित्यवीरोऽपि प्रतीयते । 'अपि वक्ति गिरां पतिः खयं यदि तासामधिदेवतापि वा । अयमस्मि पुरो हयाननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः' इत्यादिना तत्रैवोकेषु पाण्डित्यवीरादिष्वपि पर्यनुयोगतौल्यात् ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy