________________
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
इत्युक्तधर्मराहित्यमप्योजखिरसादिषु ।
अद्य रावण ते मौलिमालिनी स्याद्वसुंधरा ॥ २१९ ॥ एवं मधुररसदोषानभिधायैतद्राहित्यमेवोक्तशृङ्गारादित्रयेतरेष्वोजःसंज्ञकवक्ष्यमाणगुणप्रधानेषु वीररसादिषु दोष इत्याह-इत्युक्तेति । इति प्रागुक्तरीत्या उक्ताः ये धर्माः झयाघटितसंयोगपरह्रस्वाक्षरोच्चयादयो मधुररसदोषास्तेषां राहित्यं शून्यत्वमित्यर्थः । ओजस्विनः निरुक्तरीत्या ओजोगुणवन्तो वीरादयस्ते च ते रसादयश्चेति तथा तेष्वित्यर्थः । आदिपदाद्भावादिः । तदपि निरुक्तरसावच्छेदेन त्याज्यमिति योजना । तदुक्तं रसगङ्गाधरे । तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजखिन्यनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णय इति । तदुदाहरति—अद्येति । इयं हि श्रीरामस्य रावणं प्रत्युक्तिः । रे रावण, अद्य इदानीमेव ते तव मौलिमालिनी मौलीनां 'मौलि: किरीटे धम्मिले' इति विश्वोक्तेः किरीटानां माला सा यस्यां अस्तीति तथा त्वन्मुकुटहारवतीत्यर्थः । एतादृशी वसुन्धरा पृथ्वी स्यादित्यन्वयः । तस्मा. त्सद्य एव त्वां हनिष्यामीत्याशयः । अत्र हि वीररसस्य स्पष्टमेव ध्वननात्तत्प्रतिकूलानां वर्णादीनां सत्वेन मधुरेषु वय॑तयोक्तानामेतदनुकूलानां धर्माणामसत्वालक्षणसंगतिः । नन्वेवं शृङ्गारादिमधुररसेषु वर्जनीयदोषनिचयराहित्ये को लाभ इति चेत्तत्परिपोषव्यञ्जकवैदाख्यवृत्तिविशेषसिद्धिरेवेति गृहाण । सा च विवृता तत्रैव-'एभिर्विशेषविषयैः सामान्यैरपि च दूषणै रहिता । माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा । व्युत्पत्तिमुगिन्ती निर्मातुर्या प्रसादयुता। तां विबुधा वैदर्भी वदन्ति वृत्तिं गृहीतपरिपाकाम्' । अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि । यथावा-'आयातैव निशा निशापतिकरैः कीर्ण दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम् । वामे मानमपाकरोषि न मनागद्यापि रोषेण ते हाहा बालमृणालतोऽप्यतितमां तन्वीतनुस्ताम्यति' इति । नच किमेतावदायासेनास्तु नामोक्तवृत्तिराहित्यमपीति वाच्यम् । तस्याः परमावश्यकखादन्यथा वैरस्यापाताच । इदमप्याह स एव । अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम् । अन्यथा तु परिपाकभङ्गः स्यात् । यथा अमरुककविपद्ये-'शून्यं वासगृह विलोक्य शयनादुत्थाय किंचिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता' । अत्रोत्थाय किंचिच्छनैरित्यत्र परसवर्णझयूद्वयसंयोगस्तत्रापि नैकट्येनेति सुतरामश्रव्यम् । एवं झयूघटितसंयोगपरहखस्यापि । तथा शनैर्निद्रेत्यत्र निर्वर्ण्य पत्युमुखमित्यत्र च रेफघटितसंयोगपरह्रखस्य प्राचुर्यम् । विस्रब्धमित्यत्र महाप्राणघटितस्य लज्जेत्यत्र खात्मसवर्णझयूयघटितस्य मुखीप्रियेणेत्यत्र भिन्नपदगतदीर्घानन्तरसंयोगस्य तथा क्त्वाप्रत्ययस्य पञ्च. कृत्वो लोकतेश्च धातोदिः प्रयोगः कवेर्निर्माणसामग्रीदारियं प्रकाशयतीत्यलं