SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६४ साहित्यसारम् । [ पूर्वार्धे यङ्लुगन्तादिरूपाणि दीर्घदृष्टयैव वर्जयेत् । संचरीकर्ति संक्रीडां राधास्याम्बुजषट्पदः ॥ २१७ ॥ अप्यनुप्रासनिचयान्यमकादींश्च पण्डितः। मदामोदमुदा राधा हरिणा हरिणाक्ष्यभूत् ॥ २१८ ॥ भागौ अपाङ्गावित्यर्थः । यतः अन्तायैव मुमुक्षूणां क्षयायैव भवतः इति हेतोः तौ रुकिल रोग एवेति योजना । अत्र रुक्किलेति सवर्णझय्सङ्गः । शान्तिमिति । अतः मे खान्तं चित्तं यद्भासा यस्य ब्रह्मणः भाः प्रकाशस्तयेत्यर्थः । जगत् दृश्यं भासते स्फुरति तेन शान्तिमेतु प्राप्नोत्वित्यन्वयः । इह यद्भासेति शल्भिन्नमहाप्राणसंयोगश्च स्फुट एव ॥ २१६ ॥ अथ पददोषानाह-यङ्लुगन्तादीत्यादिद्वाभ्याम् । आदिनात्वप्रत्यययङन्तयोर्ग्रहः । दीर्घति। दीर्घप्रज्ञयैवेत्यर्थः । तावुदाहरति-संचरीकर्तीति । संक्रीडां सम्यग्गोपीसहस्रैः सह रासादिरूपां विलासपरंपरामित्यर्थः । संचरीकति पुनः पुनः कृतवानिति यावत् । यथावा-'विश्वेशं सच्चिदानन्दं वन्देऽ हं योऽखिलं जगत् । चरीकर्ति बरीभर्ति संजरीहर्ति लीलया' इति ॥ २१७ ॥ अपीति । अपिः समुच्चये यङ्लुगन्तादिवदनुप्रासनिचयानपि चेति तथा यमकादीनपि वर्जयेदित्यन्वयः । निचयपदात्स्वल्पानुप्रासव्युदासः । तेन 'दर्शयन्ति शरनद्यः पुलिनानि शनैः शनैः' इत्यादौ न दोषः । आदिना पद्मबन्धादिग्रहः । तावुदाहरति-मदेति । राधा मदस्य स्वतारुण्यमदस्य य आमोदो लेशः, यद्वा मदेन कामोन्मदेन य आमोदः पद्मिनीजातित्वात्स्वशरीरसौरभविशेषस्तेन या मुदमन्दस्मितपरंपरा तयेत्यर्थः । हरिविशेषणमप्येतत् । तत्र तु मदेन राधायाः पद्मिनीत्वात्तारुण्याविर्भावसमयसंपन्नकामो. न्मादेन य आमोद इत्यादिप्राग्वत्तेन मुद्यस्य तेनेति बहुव्रीहिरेव । एवंच वक्ष्यमाणराधाकर्तृकार्थिकश्रीकृष्णकर्मकसादरनिरीक्षणे मूलीभूतपरस्परानुरागव्यञ्जकपरस्परप्रसन्नता ध्वन्यते । एतादृशेन हरिणा खानन्तकल्याणगुणमणिगणैरन्तःकरणहरणनिपुणेन श्रीकृष्णाख्यकरणेनेत्यर्थः । हरिणेति । हरिणवन्मृगवत् इष्टलाभाद्विस्फारिते जनभीतिसंभवाचकिते परितस्तदीक्षणार्थ चलिते च अक्षिणी नेत्रे यस्याः सा तथेति यावत् । एतेन तस्यास्तावदाकस्मिकभगवल्लाभः सूचितः। एतादृशी अभूदिति संबन्धः । अत्र प्रथमचरणे दकारायनुप्रासप्राचुर्यमन्तिमचरणे यमकं च स्फुटमेव । उपलक्षणमिदं गुणरत्ने वक्ष्यमाणानां तत्तदवच्छेदेन तत्तद्गुणानां तत्तदवच्छेदेनाभावलक्षणस्य गुणाभावरूपदोषकूटस्यापीति संक्षेपः । यथावा-'उदञ्चलगञ्चलं चलितचारुचेलाञ्चलं मनाग्वलितकन्धरं स्मितविकासिबिम्बाधरम् । ननेति विसृजामणादपसरेति काप्यङ्गना जगाद करपल्लवे रहसि वल्लभे कर्षति' । अत्र चकाराद्यनुप्रासः शृङ्गारानुचित एव । यथावाऽनुपदमेव प्रागुदाहृते भामिनीविलासपद्ये दयितादयिताननाम्बुज मिति तृतीयचरणे मधुररसाननुणमेवेति दिशान्यदप्युदाहार्यम् ॥ २१८ ॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy