________________
२६२
साहित्यसारम् । - [पूर्वार्धे शृङ्गारे करुणे शान्ते रसादौ चैतदुत्त्यजेत् । झयाघटितसंयोगपरहस्वाक्षरोच्चयः ॥ २१० ॥ चिद्रसस्फुरदुद्भासप्रेमप्लुतहृदुज्ज्वलः। विसर्जनीयसादेशो जिह्वामूलीय एव च ॥ २११ ॥ उपध्मानीय इत्येतेप्येवं नैकट्यतोऽसकृत् ।
कस्तथा यस्तु ताः कान्ताः कामुकीः प्रेक्ष्य ताः पराक् । देऽसकृद्दीर्घानन्तरसंयोगश्चेत्यादिरूपा इत्यर्थः । अश्रव्येति । अश्रव्यजन्या इति यावत् । उर्वरिताः निरुक्तरीत्याऽवशिष्टाः ते सर्वेऽपि सामान्ये काव्यत्वावच्छिन्नकाव्य इत्यर्थः । वर्जनीयाः परिहार्याः । अथ सामान्यवयंवर्णदोषकथनानन्तरं विशेषगाः काव्यविशेषगतवर्णदोषा इत्यर्थः । कथ्यन्ते निरूप्यन्त इत्यन्वयः ॥ २०९ ॥ तानेव वक्तुं सामान्येन मधुररसेषु वर्णादिदोषजातवर्जनीयतया प्रतिजानीते-शृङ्गार इति । चकारः शान्ते चेति योज्यः । एता. दृशे रसादौ रसभावतदाभासादावित्यर्थः । एतद्वक्ष्यमाणं वर्णपददोषकदम्बमित्यर्थः । उत्त्यजेदवश्यं वर्जयेदिति यावत् । तदेवाह-झयेत्यादिना सोदाहरणम् । झया अन्त्येतरवर्ग्यसंघान्यतमेनेत्यर्थः । घटितेति । घटितः संपद्यमानो यः संयोगः स परो यस्य एतादृशो यो यं हस्ताक्षरोच्चयः ह्रखवर्णसमूह इत्यर्थः । तत्रापि नैकट्यमेवोत्पदेन ज्ञेयम् ॥ २१० ॥ तमुदाहरतिचिदिति । चिदेव रसः सुखहेतुत्वात्तद्रूपत्वाद्वा तस्य स्फुरंश्वरमवृत्त्याख्ये अद्वैतब्रह्मतत्त्वसाक्षात्कारात्मके अहं ब्रह्मास्मोतिवृत्तिविशेष प्रतिफलितः योऽयमुद्भासः प्रमाख्यश्चिदाभासस्तेन यत्प्रेम 'तदेतत्प्रेयः पुत्रात्' इत्यादिश्रुतेर्यो निःसीमप्रमोदः तेन प्लतं आदै हृदन्तःकरणं यस्य स तथेत्यर्थः । एतादृशो जीवन्मुक्त एवो. ज्वलो निर्मलः । अन्ये तु समला एवेति भावः । इह शान्तरसे चिद्रत्यादौ दकारादिभिर्झयात्मकैवर्णैर्घटितसंयोगपराणां चिकारादिहस्वाक्षराणां नैकट्येन बाहुल्यालक्षणसमन्वयः । एवं विसर्जनीयसादेशादिदोषत्रयमपि त्याज्यमित्याहविसर्जनीयेति । विसर्जनीयस्य यः सादेशः सकारादेश इत्यर्थः । जिह्वति । कखाभ्यां प्राक्तनो विसर्गः कुवोरित्यादिसूत्रे प्रसिद्ध एव ॥ २११॥ उपेति । अयमपि पफाभ्यां पूर्ववर्तित्वेन तथैव । इति निरुक्तरूपाः । एतेपि विसर्जनीयसादेशादयोऽपीत्यर्थः । एवमुक्तवर्जनीयवत् असकृत् भूयः नैकट्यतः नैकट्येनोक्तरसादौ त्याज्या एवेत्यन्वयः।तानुदाहरति-क इति। यस्त्विति।अत्रविसर्गस्य सकारादेशोऽसकृन्नैकट्येन स्फुट एव । एवं 'ताः कान्ताः कामुकीः' इत्यत्रापि जिह्वामूलीयस्तथा 'कामुकीः प्रेक्ष्य ताः पराक्' इत्यत्र चोपध्मानीयस्तथेति लक्षणसंगतिः । अक्षरार्थस्तु इदं हि कृष्णस्य सकलगोप्यभिसरणोत्तरं तासां प्रत्याख्यानोत्तरं स्वगतमेव वाक्यम् । तथा कः मूर्खः यस्तु ताः आबाल्याद्रतीतरक्रीडादौ समनुभूताः । तत्रापि. कान्ताः सुन्दरीः । तत्रापि कामुकीः सुरता