SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । तस्मात्तदीयतात्पर्य पञ्चस्वाद्येष्वदोषता । इत्येवावश्यमेष्टव्यं नोचेकि दोषमोषकम् ॥ २०८ ॥ एवंचोर्वरिताः षोढा भेदा येऽश्रव्यसंभवाः। सामान्ये बर्जनीयास्ते कथ्यन्तेऽथ विशेषगाः ॥ २०९ ॥ मानवर्णानन्तर्यमित्यादौ तत्र तत्र निरुक्तदोषसत्वाहुर्वारैवोक्तदौष्टयापत्तिः । ननु हास्यरसादी ग्राम्यादिर्गुण एवेत्यादिवत्प्रकृतेऽपि कश्चिदपवाद एवोह्यस्तथात्वे केयमापत्तिरित्याशङ्कयाह-अपवादस्त्विति । तुशब्दः प्रोक्तशङ्कोपशमार्थः । एवमिमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीया इत्युक्तेस्तेषां काव्यत्वावच्छे. देन हेयत्वादेकत्र कुत्रचिदपवादोहनेऽपि काव्यत्वावच्छिन्ने यावति स्वपरकाव्ये स कथमाविशेत्संचरेन कथमप्यवकाशं लभेदिति संबन्धः । तस्मादसंगतमेव सर्वेऽपीत्यादिनियमनमिति भावः ॥ २०७ ॥ नन्वेवं चेत्त्वयाप्यत्र योयं वर्णदोषः प्रागुपपादितस्तत्राप्युक्तदोषतौल्यमेव । अस्यापि वर्णेकदोषत्वादितिचेन । तस्य त्र्यादिसंयुक्तत्वस्येष्टत्वात् । तर्हि कथमत्र कर्तव्यं यदि सर्वेऽप्येतदुक्ताः प्राचीनैरनुक्तत्वादश्रव्यभेदास्तावदनादरणीया एव तर्हि वितततर इत्यादौ स्पष्टं सर्वसहृदथैरनुभूयमानश्रुतिकाटवस्यानङ्गीकारापत्तिः । नचेष्टापत्तिः वैरस्यापातात् । नापि प्राचीनोक्तश्रुतिकवाख्यपददोष एवास्यान्तर्भावः । एकपदगतत्वावच्छिन्नस्य तथा सामासिकभिन्नपदगतत्वावच्छिन्नस्यापि हरिणीप्रेक्षणेत्यादेस्तस्य यथाकथंचित्तत्संभवेऽपि केवलभिन्नपदगतत्वावच्छिन्नस्य 'शुक करोषि कथं विजने रुचिं' तथा 'पिक ककुभो मुखरीकुरु प्रकामम्' इत्यादेस्तस्य तदसंभवात् । अङ्गीकारपक्षे तूक्तसर्वकाव्यदौष्ट्यापत्तिरित्यतुलव्याकुलीभावं सहृदय विशेषस्याकलय्यान्यथानुपपत्त्या तत्तात्पर्यकल्पनेन समाधत्ते-तस्मादिति । उक्तरीत्या खपरकाव्यदौष्टयापातादित्यर्थः । तदीयेति । जगन्नाथपण्डिताभिप्रायजातमिति यावत्। पञ्चसु पञ्चसंख्याकेषु आयेषु प्राथमिकेषु सकृदेकपदगतसकृद्भिन्नपदगतस्वसमानगुर्वाद्यव्यवहितवर्णानन्तर्यतादृग्वानन्तर्यसकृद्भिन्नपदगतदीर्घानन्तरसंयोगरूपेषु निरुक्तपञ्चानां द्वन्द्वानां मध्ये क्रमेण प्राथमिकपञ्चसंख्याका श्रव्यभेदेष्विति विवक्षितोऽर्थः । अदोषता नैव दोषत्वमिति यावत् । इत्येवेत्याद्युत्तरार्धं तु यथाश्रुतमेव योज्यम् । एष्टव्यं स्वीकार्यम् । दोषेति । सर्वत्र निजकाव्येऽपीत्याद्यक्तदोषाणां निवारकमित्यर्थः । किंशब्द आक्षेपे । न किमपीतियावत् । नचैवं तर्हि तेन किमिति तदुपन्यासः कृत इति वाच्यम् । असकृदेकपदगतादीनां वितततर इत्यादितद्भेदानां निर्वाहार्थं तस्यावश्यापेक्षत्वादिति हृदयम् ॥ २०८ ॥ ततः फलितमाह-एवंचेति । षोढा षट्प्रकारका इत्यर्थः । ये गुर्वादिव्यवधानं विना असकृदेकपदगतखसमानवर्णानन्तर्य असकृद्भिन्नपदगतं च तत् । एवं खसमानवानन्तर्यमसकृदेकपदे तथाऽसकृद्भिन्नपदे च तद्वद्वर्याणां प्रथमादिनिरुक्तानन्तर्यमन्तरापि यथाकथंचिदेकपदे भिन्नपदे वाऽसकृदानन्तर्य भिन्नप
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy