SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे सर्वत्र निजकाव्येऽपि प्रायो दौष्टयं यतो ध्रुवम् । अपवादस्तु काव्यत्वावच्छिन्ने कथमाविशेत् ॥ २०७ ॥ दुपक्रममनूद्याङ्गीकुर्वन्निव छलोक्त्या खण्डयति —– यदुक्तमिति । नः अस्माकं तु पुनः तत् निरुक्तवाक्यं तथैव किंचिदश्रव्यमेवेत्यर्थः । एवमुपसंहारमपि तदीयमनू तिरस्करोति - यच्चेति । तद्यथा एवमेते सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीया इति ॥ २०६ ॥ ननु कुतोऽयमेतदुपक्रमाद्यनादर इत्याशङ्कध तत्र हेतुं विशदयति — सर्वत्रेति । एवं निरुक्ताश्रव्ययावद्भेदाङ्गीकारे । निजेति । निजस्य रसगङ्गाधरकारस्य यत्काव्यं भामिनीविलासादि तत्रापीत्यर्थः । अपिना कव्यन्तरकाव्ये तु कैमुत्येनैव दौष्टयमिति द्योत्यते । प्रायः बाहुल्येन सर्वत्र प्रतिश्लोकं नतु क्वचित्कदाचिदेव । यतः हेतोः दौष्टयं दुष्टत्वं ध्रुवं निश्चितमेव आपतेदित्यन्वयः । तथाहि भामिनीविलासीयं पद्यं रसगङ्गाधरे तावदनेनोत्तमोत्तम काव्यत्वेनोदाहारि - 'शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् । दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते' इति । अत्र ननेति सकृदेकपदगतं वर्णखानन्तर्याख्यमश्रव्यम् । एवं धेप्येत्यत्र नीश्वे - त्यत्र च भिन्नपदगतस्य संयोगस्य दीर्घानन्तर्याख्यं तत् । तथा 'दिगन्ते श्रूयन्ते' इत्यत्र 'अन्तः साक्षाद्राक्षा' इत्यत्रापि निरुक्तरीतिकं यद्यपि पूर्वश्लोकीय संयोगस्य दीर्घानन्तर्ये तथा अन्तः साक्षाद्वाक्षेत्यपि च तत् अप्यनीश्वरेत्यकरोत्तरत्वादिना दीर्घोत्तरत्वाद्यभावाद्विवादग्रस्तं तथापि ननेत्यादि तु निर्विवादमेव । एवं 'इयत्यां संपत्तावपि च सलिलानां त्वमधुना न तृष्णामार्तानां हरसि यदि कासार सहसा | निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरान्कृशीभूतः केषामहह परिहर्ता - ऽसि खलु ताम्' इत्यत्र नैकट्येन लकारद्वयं हकारद्वयं च । तथा ‘यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलैर्मन्थाद्विभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे । सोऽयं तुंगतिमिङ्गिलाङ्गकवलीकार क्रियाकोविदः कोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः' इत्यत्रापि डेकीति भिन्नपदे दीर्घानन्तरसंयोगः । तथा 'लूनं मत्तगजैः कियत्कियदपि च्छिन्नं तुषारार्दितैः शिष्टं ग्रीष्मजभीष्मभानुकिरणैर्भस्मीकृतं काननम् । एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते' इत्यत्र ललीति सकृदेकपदेऽपि खसमानवर्णानन्तर्यम् । तथा ‘सत्पूरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलानि' इत्यत्र सकृद्भिन्नपदगतमखिललोकेति तत् । तथा 'परार्थव्यासङ्गादुपजहदथ स्वार्थपरतामभेदैकत्वं यो वहति गुणभूतेषु सततम् । स्वभावाद्यस्यान्तः स्फुरति ललितो दातृमहिमा समर्थो यो नित्यं जयति नितरां कोऽपि पुरुषः' इत्यत्र लकारयुग्माव्यवधानम् । तथा-'अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराजो गन्धेनोग्रण लशुन इव' इत्यत्र भिन्नपदगं न निमित्तिखस २६०
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy