SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६] सरसामोदव्याख्यासहितम् । दीर्घानन्तरसंयोगः सकृदप्येकतां विना । हा प्रिये जानकि क्वासि या त्रपाक्ता त्रयी स्वयम् ॥२०५॥ यदुक्तं किंचिदश्रव्यमिति तत्तु तथैव नः । यच्चोपसंहृतं सर्वेऽपीत्यादि तदसंगतम् ॥ २०६ ॥ दिविषयासक्तो भवेति । तस्मादुक्तवर्ग्यानन्तर्यपञ्चकमप्यश्रव्यमेवेति भावः । तथाचोक्तं तत्रैव सोदाहरणं सप्रपञ्चम् । एवं स्वसमानवयनन्तर्य सकृदेकपदगतत्वे किंचिदश्रव्यं यथा 'वितथस्ते मनोरथः ' । असकृच्चेदधिकं यथा 'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे यथा 'अथ तस्य वचः श्रुत्वा ' इत्यादौ । असकृद्भिन्नपदगतत्वे तु ततोऽप्यधिकम् । 'अथ तथा कुरु येन सुखं लभेः' । एतच वर्ग्याणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरानन्तर्य प्रथमतृतीययोर्द्वितीयतृतीययोर्वाऽनन्तर्ये तु तथा नाश्रव्यं किंत्वीषन्निर्माणमार्मिकैकवेद्यम् । एतदप्यसकृच्चेत्ततोऽप्यधिकत्वात्साधारणैरपि वेद्यम् । 'खग कलानिधिरेष विजू - म्भते', 'इति वदति दिवानिशं स धन्यः' । पञ्चमानां मधुरत्वेन स्ववर्ग्यानन्तर्य न तथा 'तनुते तनुतां तनौ' । खानन्तर्य त्वश्रव्यमेव ' मम महती मनसि व्यथाविरासीत्' । एतानि चाश्रव्यत्वानि गुव्यवधानेनापोद्यन्ते । 'स जायतां कथंकारं काके केकां कलखनः' । यथावा - ' यथा यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता । तथा तथा तत्त्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा ' इत्यादि । अधिकं तु तत्रैव बोध्यम् । विस्तरभयादत्र दिङ्मात्रमेवोदाहृतमिति क्षम्यताम् । इदं तु पञ्चमानां स्वानन्तर्य पूर्व वर्णानन्तर्य सामान्यत एवोक्तमिति न पुनरुपन्यस्यत इति दिक् ॥ २०४ ॥ अथ दीर्घान्तरसंयोगाख्यमश्रव्यान्तरमाह - दीर्घेति । दीर्घो यो वर्णस्तदनन्तरं यः संयोगः 'हलोऽनन्तराः संयोगः' इत्युक्तलक्षणः स तथेत्यर्थः । सः सकृदपि एकवारमप्येकतां विना एकपदत्वं विना चेदश्रव्यत्वमिति योजना । अपिना असकृच्चेत्सुतरां तथात्वमिति द्योत्यते । एवंच भिन्नपदगतत्वे सति सकृदपि दीर्घोत्तरसंयोगत्वमश्रव्यविशेषत्वम् । असकृच्चेदतितरां तत्वमिति फलितम् । तदुभयमपि क्रमेण चरणद्वयेोदाहरति- हेति । इयं श्रीरामस्य विरहकालीनोक्तिः । येति । एतेन पूर्व तच्छब्दोऽध्याहार्यः । या स्वयं साक्षात् त्रपा लज्जया सुस्निग्धा त्रयी ऋगादिवेदत्रय्येव मत्प्राप्त्यर्थमवतीर्णेत्यर्थः । इदमप्युक्तं रसगङ्गाधरे – अथ दीर्घानन्तरसंयोगस्य भिन्नपदगतस्य सकृदप्यश्रव्यमसकृत्तु सुतराम् । 'हरिणी - प्रेक्षणा यत्र गृहिणी न विलोक्यते । सेवितं सर्वसंपद्भिरपि तद्भवनं वनम्' । एकपदगतस्य तु तथा नाश्रव्यम् । यथा - ' जाग्रता विजितः पन्थाः शात्रवाणां वॄथोद्यमः' । परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद्भिन्नपदान्तत्वाभावान्मधुरत्वाच्चानन्तर्ये न मनागप्यश्रव्यमिति । विस्तरस्तु तत्रैवानुसंधेय इत्युपरतम् ॥ २०५ ॥ एवमेकादशप्रकारका श्रव्यभेदेषु हेयोपादेय विचारमारभमाणस्त - २५९
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy