________________
२५० साहित्यसारम् ।
[ पूर्वार्ध प्रथमानां द्वितीयैश्चेत्तृतीयानां चतुर्थकैः। क्षेयं साधारणैरन्यत्त्वीषनिर्माणमार्मिकैः ॥ २०२॥ एतदप्यसकृच्चत्स्याद्वेद्यं साधारणैरपि । वितथं चापि वितथतरं दृश्यमिदं खलु ॥ २०३ ॥ अथ तत्त्वोपलब्ध्यर्थ दध दामोदरे मनः।
खग कोमलसंलापैरटव्यामपि मा रम ॥ २०४॥ नवर्गजाः खादिवर्णास्तेषामित्यर्थः । अपिः समुच्चये । सकृदादीति । सकृदेकपदगतत्वादिभेदेनेत्यर्थः । पञ्चमैर्विना ङअणनमैर्वर्गपञ्चमवर्णैर्विनेत्यर्थः । तदानन्तर्यस्य माधुर्यप्रयोजकत्वादिति भावः । क्रमाच्चतुर्धा ज्ञेयमित्यन्वयः। गुर्वादिव्यवधि विनेत्यत्रापि ज्ञेयम् ॥ २०१॥ ननु नेदं सर्वेषां श्रवणोद्वेजकमित्याशङ्कयाधिकारिभेदेन तद्व्यवस्थापयति-प्रथमानामित्यादिसार्धेन । प्रथमानां कचटतपानां द्वितीयः खछठथफैः आनन्तर्यमित्यनुषजते चेत् तथा तृतीयाणां गजडदबानां चतुर्थकैः घझढधभैरानन्तर्य चेत्तदश्रव्यं साधारणैः सर्वविद्वद्भिरपि ज्ञेयमिति संबन्धः । अन्यत्तु निरुक्तभिन्नं तु वाणामानन्तर्य ईषत् किंचिदेवाश्रव्यं भवतीति हेतोर्निर्माणमार्मिकैः काव्यकरणकुशलैरेव ज्ञेयं नत्वितरैरिति योजना ॥ २०२॥ तत्रापि प्रतिप्रसवमाह-एतदपीत्यर्धेन। एतन्निरुकवानन्तर्यभिन्नमपि तदानन्तर्यमसकृद्वारंवारं स्यान्चेत्साधारणैरपि वेद्यं स्यादित्यन्वयः । स्थूलत्वात्सामान्यविद्वद्भिरपि ज्ञेयमित्याशयः। तत्र वाणामुक्तरीत्या सकृदेकपदगतमान्तर्यमाद्यमुदाहरति-वितथं चापीति । अत्र तकारस्य तवर्गप्रथमस्य थकारेण द्वितीयेन कृतमानन्तर्य स्फुटमेव । एवं तत्रैवासकृत्त्वेन द्वितीयं तदुदाहरति-वितथतरमिति । अक्षरार्थस्तु इदं दृश्यं साक्षिणा ज्ञातत्वाज्ञातत्वोपाधिभ्यां वेद्यं द्वैतमित्यर्थः । वितथं मिथ्यैवेति यावत् । नन्वस्तु नामैन्द्रजालिकनिर्मिताम्रवन्मिथ्याभूतेनाप्यनेन काञ्चनकुरङ्गलोचनाद्यात्मना द्वैतेनास्माकं सुखोपभोग इत्यत्राहवितथतरमिति । चः समुच्चे । खलु निश्चितं वितथतरं क्षणविनश्वरत्वेन दृष्टिसष्टिवादानुसारात्प्रातिभासिकैकसत्तावच्छिन्नत्वेन अतिमिथ्याप्यस्तीत्यर्थः ॥ २०३ ॥ एवं भिनपदेऽपि सकृदाख्यं तृतीयं तदुदाहरति—अथेति । तद्वत्तत्रैवासकृदाख्यं तदाहरति-दधेति । अयमर्थ:-हे मुमुक्षो, त्वं । अथ निरुक्तरीत्या द्वैतस्य कल्पितत्वज्ञानानन्तरं तत्त्वेति । अद्वैतब्रह्मात्मतत्त्वसाक्षात्कारार्थमित्यर्थः । दामोदरे भक्तवत्सले भगवति श्रीकृष्ण इति यावत् । मनः दध अन्तःकरणं धारयेति । अथ वाणां निरुक्तानन्तर्यभिनानन्तर्यमसकृत्त्वेन पञ्चमं वानन्तर्याश्रव्यमुदाहरति-खगेति । अत्र कवर्याणां यथाकथंचिदानन्तर्यमसकृदेवेति तथात्वं बोध्यम् । अक्षरार्थों यथा । एवं ब्रह्मजिज्ञासोत्तरं कामिन्यादौ रतेः कैव कथात्वम् । खगेति । कोकिलादिद्विजकूजितैरित्यर्थः । अटव्यामपि अतुलवैराग्येण विधिवत्संन्यासं विधाय ।अरण्येऽपीति यावत् । मारमं मैव शब्दा