________________
विषस्त्नम् ६] सरसामोदव्याख्यासहितम् । २५७
स्वानन्तर्य तु वर्णानां सकृदेकपदेऽपि च । रसगङ्गाधरेऽश्रव्यं गुर्वादिव्यवधिं विना ॥ १९८ ॥ उत्तरोत्तरमाधिक्यं तस्य ज्ञेयं विपश्चिता। गगनं शुक्लतां यातं ललनाननकान्तिभिः ॥ १९९ ॥ तततामेहि रे चित्त तव वक्तव्यमत्र किम् । दद दाशरथेऽद्यैव मम मित्राय मेदिनीम् ॥ २०० ॥ एवं स्वतुल्यवाणामानन्तर्यमपि क्रमात् ।
सकृदादिभिदा ज्ञेयं चतुर्धा पञ्चमैर्विना ॥ २०१॥ क्रियत इत्याशयः ॥ १९७॥ तत्रादौ वर्णदोषान्व्युत्पादयति-स्वानन्तर्य त्वित्यादिना सोदाहरणम् । तुशब्दः प्रागुक्तश्रुतिकाटवव्यावृत्त्यर्थः । सकृदिति । सकृदपि एकपदेऽपि च वर्णानां अक्षराणां खानन्तर्य स्वसमानजातीयोत्तरवर्णत्वम् । गुर्वादीति । आदिः संयुक्तसंग्राहकः। तेन यो व्यवधिर्व्यवधानं इत्यर्थः । तं विना। रसेति। एतन्नाम्नि पण्डितराजग्रन्थ इत्यर्थः । अश्रव्यं एतन्नामकं वर्णदोषजातमिति यावत् । उक्तमिति शेषः॥१९८॥ एकपदे भिन्नपदेऽपि चासकृत्त्वे तदाधिक्यमाहउत्तरोत्तरमित्यर्धेन । तस्मात्संयुक्तपरगुर्वक्षरं केवलं वा गुर्वक्षरं व्यवधायकं न चेद्वर्णानां स्वसमानजातीयोत्तरवर्णत्वं सकृदप्येकपदेऽपि च किंचिदश्रव्यं असकृच्चेदधिकं तथा भिन्नपदेऽपि सकृच्चेत्किचिदसकृच्चेदधिकमेव भवतीति भावः । इह संयुक्तपरेत्यादिना रङ्गाङ्गणमित्यादौ लोलालिपुञ्ज इत्यादौ चातिव्याप्तिनिरासः । तत्र तयोर्व्यवधायकत्वादिति । तानीमान्येकपदगतसकृदेकपदगतासकृद्भिनपदगतासकृत्संज्ञकानि चत्वार्यश्रव्याणि फलितानि क्रमेणोदाहरति-गगनमित्यादि सार्धेन । अत्र गकारलकारनकारात्मकानां त्रयाणां द्वन्द्वानां निरुक्तरूपत्वादाद्योदाहरणत्वं बोध्यम् ॥१९९॥ तततामिति । इह तकारत्रयत्वादेकपदासकृत्त्वेन तथात्वम् । चित्तेति । अत्र चित्त, तव वक्तव्यमित्युदाहरणद्वयेऽपि भिन्नपदगतसकृत्त्वेन तृतीयोदाहरणत्वम् । अक्षरार्थस्तु रे चित्त, त्वं तततां तस्य व्याप्तस्य ब्रह्मणो भावस्तथा ताम् । अद्वैतात्मतामित्यर्थः । एहि प्राप्नुहि । अत्र दृश्ये विषये तव किं वक्तव्यं न किमपीति । ददेति । अत्र चरणद्वयारम्भोदाहरणद्वयेऽपि भिन्नपदगतासकृत्वेन चतुर्थोदाहरणत्वं ज्ञेयम् । तच्चेदमुक्तं तत्रैव सप्रपञ्चम्।वर्णानां खानन्तर्य सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा ककुभसुरभिः विततगात्रः पललमिवाभातीत्यादौ । असकृच्चेदधिकम्। यथा वितततरस्तरुरेष भाति भूमौ' एवं भिन्नपदगत्वेपि यथा-'शुक करोषि कथं विजने रुचिम्' इत्यादौ । असकृच्चेद्भिन्नपदगतत्वे ततोप्यधिकम्। यथा-'पिक ककुभो मुखरीकुरु प्रकामम्' इति ॥२००॥ एवं निरुक्ताश्र व्यचतुष्टयस्य प्रसङ्गाद्वर्याश्रव्यपञ्चकमप्यावेदयति । वाणां कवर्गादिपवर्गान्तवर्गपञ्चकभववर्णसंबन्ध्यप्युक्तरीतिकाश्रव्यपञ्चकमित्यर्थः । एवमित्यादिना । एवं निरुक्ताश्रव्यचतुष्टयवत् । खेति । खः ककारादिवर्णः तस्य ये तुल्यवाः समा