________________
२५६
साहित्यसारम् ।
[ पूर्वार्धे रत्नावल्यां चतुर्थेऽङ्केऽननुसंधानमङ्गिनः । देवतायां रतायुक्तिः प्रकृतीनां विपर्ययः॥ १९४॥ विपरीतरते लक्ष्मीश्वञ्चलापि स्थिराभवत् । अनन्तकोटिब्रह्माण्डं दिधक्षुः पातु वः शिवः ॥ १९५॥ अनङ्गस्याभिधानं च यथा तद्वर्णनं मधोः। राज्ञा कर्पूरमार्या संस्तुतं बन्दिना कृतम् ॥ १९६ ॥ चतुर्दशेति संप्रोक्ता रसदोषाः क्रमान्मया। अथ नव्यमते दोषान्वक्ष्ये वर्णपदैकगान् ॥ १९७॥
विचारे सिद्धान्तत्वेनादरणीयवाक्यतयोवो नायकः कवेः संमतः । बलरामस्तु न तथेति प्रतिनायक एव । तेन तस्याङ्गत्वात्तद्विषयकं निरुक्ताष्टश्लोक्या अतिविस्तरेण वर्णनं दोष एवेति भावः ॥ १९३ ॥ एवं क्रमागतमङ्गयननुसंधानमप्युदाहरणस्थलप्रकटनपूर्वकमाह-रत्नावल्यामित्यर्धेनैव । तदुक्तं काव्यप्रकाशे-'अङ्गिनोऽननुसंधानं यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिरिति । प्रकृतिविपर्ययाख्यदोषान्तरमप्युपलक्षणविधया स्फुटयति-देवतायामिति । उपलक्षणमिदं यावदनौचित्यावच्छेदकावच्छिन्नस्य । उक्तं हि काव्यप्रदीपे-यत्प्रकृतौ यद्वर्णनमनुचितं तत्र तद्वर्णनमिति । अधिकं तु तत्र तट्टीकादौ चानुसंधेयम् । विस्तरभयानेह संगृह्यते । दिव्यायुत्तमादिधीरोदात्तादिप्रकृतिभेदेन नायकादिभेदास्त्वग्रे चन्द्राख्ये नेतृप्रकाशके एकादशरत्न एव सुव्यक्तीभविष्यन्तीति ॥ १९४ ॥ तत्राद्यमुदाहरति-विपरीतेति । यथावा गोवर्धनसप्तशत्याम्-'उन्नालनाभिपङ्केरुह इव येनावभाति शंभुरपि । जयति पुरुषायितायास्तदाननं शैलकन्यायाः' इत्यादि । अन्त्यमुदाहरति-अनन्तेति । समाहारे जात्या वा एकवचनम् । दिधक्षुः कल्पान्ते दग्धुमिच्छुः । यथावा कुमारसंभवे-'कोपं विभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत्स वह्निर्हरनेत्रजन्मा भस्मावशेषं मदनं चकार' इति ॥ १९५ ॥ एवमनङ्गस्याभिधानमपि रसदोष इत्याह-अनङ्गस्यति । रसानुपकारकस्य कीर्तनमित्यर्थः। पक्षे मदनस्य कथनम् । चकारः पूर्वोक्तदोषसमुच्चयार्थः । तदुदाहरणस्थलमाह-यथेति । तत् नायिकया स्वेन च कृततद्वर्णनोत्तरकालिकमित्यर्थः । मधोः वसन्तस्य । तदुक्तं साहित्यदर्पणे।अनङ्गस्य कीर्तनं यथा-कर्पूरमजर्या राज्ञा नायिकया खयं च कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य तस्य प्रशंसेति॥१९६॥अथ रसदोषकथनं तत्संख्याभिधानपूर्वकमुपसंहृत्य नव्यमते तु वर्णपदयोरेव दोषान्तराण्यप्युक्तानीति तत्सारसंग्रहं प्रतिजानीते-चतुर्दशेति।इतिशब्दः प्राक्प्रयोज्यः।क्रमात्पूर्वाचार्यक्रमानुसारेणेत्यर्थः । वर्णेति । एकपदेन वाक्यतदर्थादेय॒दासः । तन्मते तद्दोषाणां प्राचीनोक्तदोषानतिरिक्तत्वान्न तदानेडनमिह