SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ विषरत्नम् ६ ] सरसामोदव्याख्यासहितम् । अकाण्डप्रथनच्छेदावकालोत्पत्तिसंहृती। वेणीसंवरणे प्रोक्तः संजाते भटसंक्षये ॥ १९०॥ दुर्योधनस्य शृङ्गारो भानुमत्या समं यथा । सा वीरचरिते प्रोक्ता रामभार्गवयोमिथः ॥ १९१॥ अविच्छिन्नप्रचारेण रूढे वीररसे सति । यामि कङ्कणमोक्षार्थमिति तद्वचने तथा ॥ १९२॥ अङ्गस्य विस्तृतिर्नीतौ प्रतिनायकरूपिणः । वक्तुर्मुसलिनो माघे बहुधा वर्णनं यथा ॥ १९३॥ त्यर्थः।उक्तंहि काव्यप्रदीपे-'पुनःपुनर्दीप्तिरङ्गरसादिविषया दोषः।अङ्गिनस्तु सा महाभारतादौ शान्तादेरिव न दोषमावहतीति । कुमारसंभवे हि कामदहनोत्तरं रतिशोकवर्णनात्स्फुटमेवासौ वक्ष्यमाणगौरीहरसंभोगादिशृङ्गारस्याङ्गमिति तात्पर्यम्॥१८९॥ इत्थं निगदव्याख्यातं रसदोषाष्टकमुपपाद्य क्रमप्राप्तमकाण्डप्रथनच्छेदाख्यं दोषद्वयं निरूपयति-अकाण्डेति । रसस्येति शेषः । अकालेति । अकाले अनवसरे ये उत्पत्तिसंहृती उपक्रमोपसंहारावित्यर्थः । तथाच आकस्मिकरसोत्पत्तित्वमकाण्डप्रथनत्वं आकस्मिकरसध्वंसत्वमकाण्डच्छेदत्वं चेति क्रमादुभयलक्षणं बोध्यम् । तत्राद्योदाहरणस्थलमाह-वेणीत्येकेन ॥ १९० ॥ भानुमत्या एतन्नाम्या तत्पन्येत्यर्थः। समं सार्धम् । तत्र वीरस्यैव करुणस्य वाऽवसरत्वान्नैवास्यावकाशः । एवं द्वितीयोदाहरणस्थलमप्याह-सेत्यादिना सार्धेन । सा पूर्वोक्तलक्षणा अकाण्डे रसोपसंहृतिरित्यर्थः ॥ १९१॥ अविच्छिन्नेति।सततप्रगल्भवाक्पारम्पर्येणेत्यर्थः। रूढे अभ्युदयं प्राप्त इति यावत्। यामीति । अहं कंकणमोक्षार्थं । विवाहाद्दशमदिने हि कंकणमोचनोत्सवः प्रसिद्ध एव तदर्थमित्यर्थः । यामि गच्छामि । इतीति । इति निरुक्ताकारं यत्तस्य श्रीरामस्य वचनं तस्मिन्नित्यर्थः । अत्र हि पूर्वोक्ताकस्मिकशृङ्गारप्रथनादाकस्मिकवीररसविच्छेदः प्रसिद्ध एवेति भावः । तदुक्तं काव्यप्रकाशे। छेदो यथा वीरचरिते द्वितीयेऽङ्के-राघवभार्गवयोर्धाराधिरूढे वीररसे कङ्कणमोचनाय गच्छामीति राघवस्योक्ताविति ॥ १९२ ॥ अथान्यदपि दोषचतुष्टयं निगदव्याख्यातमेव कथयन्प्रथमं अङ्गस्यातिविस्तृतिं तत्त्वेनाह-अङ्गस्येति । अप्रधानस्येत्यर्थः । विस्तृतिरतिविस्तरतो वर्णनमिति यावत् । तथाचोक्तं काव्यप्रदीपे-अङ्गस्य अप्रधानस्य अतिविस्तृतिरतिविस्तरेण वर्णनम् । यथा हयग्रीववधे हयग्रीवस्येति । व्याख्यातं चेदमुद्योते । अङ्गस्य प्रतिनायकादेः । यथेति । तत्र हि हयग्रीवस्य नलवनविहारादिना नायकापेक्षया विस्तरेण वर्णनं तस्यैव नायकत्वं प्रत्याययतीति । तदुदाहरणस्थलमाह-नीतावित्यादि। नीतौ नीतिविचारविषय इत्यर्थः। प्रतीतिःप्रतिकूलनायकस्वरूपस्येत्यर्थः। वक्तुः वसंमतनीतिमाख्यातुः मुसलिनः 'मुसली हली' इत्यमराद्बलरामस्येत्यर्थः । -बहुधेति । ततः सपत्नापनयेत्यादिना श्लोकाष्टकेनेति यावत् । तत्र हि नीति.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy